Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________
४.२
महोपाध्याय श्रीमेषविजयगणिविरचिते सप्तसन्धानमहाकाव्ये
अन्वयः-~धरणेः हरिः स्वबलस्थिती सरितस्तटे सवरणं वरणं अधात् स खलु सवलयः स्वमहसा महसारमहानृपैः सिन्धुमतीतरत् ॥ ६ ॥
व्याख्या-धरणेः पृथिव्याः हरिः इन्द्रः धरणीन्द्रः स्ववलस्थिती स्वबलस्य सैन्यस्य स्थिती स्वसैन्यनिवेशाय सरितस्तटे सरतः अपरोदधेस्तटे रोधसि सवरणं वरणं वरणेन प्राकारेण सहितम् तदानीं सेनारक्षकरूपप्राकारसहितम् वरणं स्थिति उपनिवेशम् अधात् कृतवान् सेनासन्निवेशं कृतवानित्यर्थः सबलयः सपरिकरः स्वमहसा निजतेजसा महसारमहानृपः महेन उत्सवेन सारः श्रेष्ठः यो महानृपः तैः यद्वा महस्तेजोवत् यः सारो बलम् स महसारः स चासौ महानृपश्चति महसारमहानृपः तः तेजोवद्भिः सहेति शेषः सिन्धुम् सिन्धुनामानं नदीविशेषम् अतीतरत् तरतिस्म ॥ ६ ॥ शिवमगुः किल कोटिमुनीश्वरा,
यदिह तां स शिला सहसा दधे । प्रतिकृतीः प्रणनाम ततोऽर्हता,
बजनतो जनतोषकरीनृपः ॥ ७ ॥ अन्वयः--यदिह किलकोटिमुनीश्वराः शिवमगुः तां शिला स सहसा दधे ततः वजनतः नृपः जनतोषकरी: अर्हतां प्रतिकृती: प्रणनाम ॥ ७ ॥ ___व्याख्या-यद् यस्मात् इह कोटिशिलातीर्थे कोटि मुनीश्वराः कोटिसंख्यकमुनिप्रवराः शिवम् मोक्षम् अगुः किल गताः किल ताम् शिलाम् स भरत चक्रवर्ती सहसा झटिति आदधे धृतवान् ततः तदनन्तरम् वजनतः गमनतः नृपः भरतमहीपतिः जनतोषकरीः जनानां लोकानां तोषकरीःतुष्टिकरीः कल्याणसंपादिकाः अहंतां जिनानाम् प्रतिकृतीः प्रतिमाः प्रणनाम प्रणतिस्म ॥ ७ ॥

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480