Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 438
________________ ४१४ महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाम्ये प्रथमतीर्थकृता परिपालिता, तदनु बाहुबलीशजयश्रिता । भरतचक्रभृता ह्यभिनन्दिता, युगलिता गलितात्र यतो दिनात् ॥ २२ ॥ अन्वयः--प्रथमतीर्थकृता परिपालिता तदनुबाहुबलींशजयश्रिता हि भरतचक्रभृता अभिनन्दिता अत्र यतो दिनात् ततो दिनात् युगलिता गलिता॥२२॥ व्याख्या~यतो दिनात् यद्दिनमारभ्य इयम्भूमिरिति शेषः प्रथ. मतीर्थकृता ऋषभप्रभुणा परिपालिता परिरक्षिता तदनु तत्पश्चात् बाहु. बलीशजयश्रिता बाहुबली चासौ ईशश्चेति बाहुबलीशः तस्य जयम्बिजयमाश्रयतीति बाहुबलीशजय श्रिता बाहुबलीनृपविजय विश्रुता भरतचक्रभृता भरतचक्रवर्तिना अभिनन्दिता कृताभिनन्दना तहिनादारभ्य "यत्तदोनित्यसाकांक्षत्वात् " अत्र भूमौ युगलेर्भावः युगलिता युगलिधर्मत्वम् गलिता निवृत्ता निरस्तेत्यर्थः ।। अन्यत्र-प्रथमतीर्थकृता प्रथमम् तीर्थकृता तीर्थङ्करेण परिपा. लिता परि सर्वतः पालिता रक्षिता " पार्श्वनाथवीरस्वामिपक्षे रलयोः साम्यात" परिपारिता सर्वतोभावेन पारिता कर्मसमापिता परिधातोः कर्मसमाप्त्यर्थकत्वात् यद्वा प्रथम तीर्थकृतं आसमंतात् परिपालय. तीति तथा प्रथमतीर्थकरलालनपोषणवर्धनसंपादिकेत्यर्थः तदनु बाहुबलीचासौ ईशश्चेति तथा भुजबलशालीनृपः तस्योत्कर्षेण श्रिता आश्रिता भरति लोकमिति भरतः अथवा भरति धर्मादिकमिति भरतः तेषां चक्रः समूहस्तं बिभर्तीति भरतचक्रभृत् तेन अभिनन्दिता खनिवासेन मण्डिता यतः दिनात् तस्मादिनादारभ्येति शेषः अत्र भूमौ नगरे वा युगलिता युगं सुग्मं लाति गृह्णातीति युगलः तस्य भावो युगलिता पापपुण्यो "सुखदुःखौ" वियोगसंयोगौ वा गलिता निरस्ता जिनेन्द्र.

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480