Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________
४.६
महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसम्मानमहाकाम्बे
साध्वसात तोयधेश्च तुद्यते तूयते वा तोयः व्यथा हिंसा वा तद्धीयते यस्मिन् स तोयधिः तस्माच्च विप्लवः पराभवः जात इति शेषः ॥२३॥
यमकालंकारः।
कृष्णपक्षे-भयतोय धिविप्लवः भयः भयजनका तोयधिविप्लव समुद्रकर्तृक उपद्रवः सर्वतो जलमग्नता जातेति शेषः कृष्णप्रयाणानन्तरं द्वारकायाः समुद्रमनतेति पौराणिका इति भावः ॥२३॥ सकमलाकमलाशयभूरभू
नरमणी रमणीललनैः श्रिया । असुरभिः सुरभिप्रसवेऽपि सा,
नरचिता रचिताइवधूमतः ॥ २४ ॥ अन्वयः--नरचिता स कमला कमलाशयभूः रचितावधूमतः सुरमिप्रसवेऽपि असुरभिः रमणीललनैः श्रिया रमणी न भभूत् ॥ २४ ॥
व्याख्या-नरचिता नरैर्नागरिकजनैश्चिता व्याप्ता परिपूर्णा अपि स कमला कमलेन पंकजेन सहिता यद्वा कमलया लक्ष्म्या शोभा संपत्त्या वा सहिता सकमला सश्रीका कमलाशयभूः आसमंताच्छेते यस्मिन् स आशयः "आङ्पूर्चकाच्छतेराधारेऽप्" कमलायाः लक्ष्म्याः आशयः कमलाशयः सा चासो भूश्चेति कमलाशयभूः अथवा कमलस्य सरोजस्य आशयः कमलाशयः स चासो भूश्चेति कमलाशयभूः रचितात् जनितात् दवधूमतः वनाग्निधूमात् सुरभिप्रसवेऽपि सुर मेर्वसंतस्य प्रसवे उत्पत्तावपि सुरभिसाम्राज्येऽपि असुरमिः अमनोहरा यद्वा सद्गन्धरहिता "वसन्ते पुष्पसमयः सुरभिग्रीष्म उष्मक इत्यमरः" तथा च रमणीललनैः श्रियाः रमण्याः रामायाः ललनः प्रेयान् इति रमणीललनः तैः श्रिया शोमया संपत्या वा रमणी मनोहादिनी न अभूत् न अजनिष्ट ॥ २४ ॥ यमकः विशेषोक्तिथालंकारी ॥

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480