SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ४.६ महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसम्मानमहाकाम्बे साध्वसात तोयधेश्च तुद्यते तूयते वा तोयः व्यथा हिंसा वा तद्धीयते यस्मिन् स तोयधिः तस्माच्च विप्लवः पराभवः जात इति शेषः ॥२३॥ यमकालंकारः। कृष्णपक्षे-भयतोय धिविप्लवः भयः भयजनका तोयधिविप्लव समुद्रकर्तृक उपद्रवः सर्वतो जलमग्नता जातेति शेषः कृष्णप्रयाणानन्तरं द्वारकायाः समुद्रमनतेति पौराणिका इति भावः ॥२३॥ सकमलाकमलाशयभूरभू नरमणी रमणीललनैः श्रिया । असुरभिः सुरभिप्रसवेऽपि सा, नरचिता रचिताइवधूमतः ॥ २४ ॥ अन्वयः--नरचिता स कमला कमलाशयभूः रचितावधूमतः सुरमिप्रसवेऽपि असुरभिः रमणीललनैः श्रिया रमणी न भभूत् ॥ २४ ॥ व्याख्या-नरचिता नरैर्नागरिकजनैश्चिता व्याप्ता परिपूर्णा अपि स कमला कमलेन पंकजेन सहिता यद्वा कमलया लक्ष्म्या शोभा संपत्त्या वा सहिता सकमला सश्रीका कमलाशयभूः आसमंताच्छेते यस्मिन् स आशयः "आङ्पूर्चकाच्छतेराधारेऽप्" कमलायाः लक्ष्म्याः आशयः कमलाशयः सा चासो भूश्चेति कमलाशयभूः अथवा कमलस्य सरोजस्य आशयः कमलाशयः स चासो भूश्चेति कमलाशयभूः रचितात् जनितात् दवधूमतः वनाग्निधूमात् सुरभिप्रसवेऽपि सुर मेर्वसंतस्य प्रसवे उत्पत्तावपि सुरभिसाम्राज्येऽपि असुरमिः अमनोहरा यद्वा सद्गन्धरहिता "वसन्ते पुष्पसमयः सुरभिग्रीष्म उष्मक इत्यमरः" तथा च रमणीललनैः श्रियाः रमण्याः रामायाः ललनः प्रेयान् इति रमणीललनः तैः श्रिया शोमया संपत्या वा रमणी मनोहादिनी न अभूत् न अजनिष्ट ॥ २४ ॥ यमकः विशेषोक्तिथालंकारी ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy