SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ carrrrrrrrrrr................. भाचार्यनीविजयामृतस्प्रिणीता सरणी टीका. सर्गप्रभावात् तत्र पुण्यस्य धर्मस्य सुखसंयोगस्यैव स्थितिर्न तत्सहचरस्य पापादेरित्यर्थः॥ ___ रामकृष्णपक्षे-प्रथमतीर्थकता प्रथमम् आदौ तीर्थकृता तीर्थ हितशासनं करोतीति तीर्थकृत तेन रामेण कृष्णेन वा परिपालिता सम्यगवेक्षिता तदनु तत्पश्चात् बाहुबलीशजयश्रिता भुजबलशालि. नृपोत्कर्षश्रिता भरतचक्रभृता भरणपोषणकारकेन अभिनन्दिता या नगरी यतो दिनादारभ्य ततोदिनादत्रनगरे युगलिता प्रतिद्वन्दिता गलिता सर्वेषां राजानधीनत्वात् परस्परनस्पर्धन्त इति भावः ॥२२॥ तृषितभूषितभूरिवियोगिना मृतमृतेन मृतेन (?) पदात्स्वयम् । तदनु तन्नगरे नगरैवते त्युभयतो भयतोयधिविप्लवः ॥ २३ ॥ अन्वयः-हे मृतेन तृषितभूषितभूरिवियोगिनाम् ऋतम् ऋते स्वयंपदात् . तदनु तमगरे नगरैवत इति उभयत: भयतोयधिविप्लवः ॥ २३ ॥ ____ व्याख्या-हे मृतेन ! मृतः परलोकंगतः इनः राजा यस्स स मृतेनस्तत संबुद्धो हे मृतेन मृताधिप ! तदनु तदनन्तरम् तनगरे तसिन पुरे नगरवता रै अस्यास्तीति रैवान् नग इव रैवान् नगरैवान् तेन प्रच्छन्नगुप्तधनवता वृषितभूषितभूरिवियोगिना वषितः संजातवृषः भूषितः अलंकृतः अथवा भूचि भूमौ उषितः स्थितः तृषितश्चासो भूषितश्चेति तषितभूषितः स चासौ भूरिवियोगी चेति वृषितभूषितभूरिवियोगी तेन अमृतमृतेन अमृताय मोक्षाय मृतेः मृत्युक्शंगतः इनो यस्य स अमृतमृतेनस्तत्संबुद्धौ हे अमृतमृतेन उभयता इहलोकता परलोकतश्च यद्वा उभयतः भूरिवियोगिजनत्वेन किमपि कत्तुंमलसेन नगरवता गुप्तधनेन कस्मैचिदपि किमप्यप्रयच्छतेति उभयथा भयात्
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy