SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ भाचार्य श्री विजयामृतरिमगीता सरणी टीका. सर्ग-८ १०५ व्याख्या-पुनः पुनरपि खचरेशिनाम् विद्याधराणाम् नमिविनमिप्रभृतीनाम् धरम् पर्वतम् उपेत्य आगत्य तत्रत्यान् विजित्य खंडनिपातिनीम् खण्डप्रपातानाम्नीम् परदरीम् महती गुफाम् समतिगत्य समतीत्य स राजा मदी अहङ्कारवान् न ईश्वरः, ऐश्वर्य सम्पन्नः सन्निधौ समीपे नवनिधीन नवप्रकारान् निधीन ऐश्वर्य विशेषान् समदीधरत् धृतवान् " महापद्मश्च पद्मश्च शंखो मकरकच्छपौ । मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नवेत्यमरः" ॥ ११ ॥ सुरधुनीतटगानधुनीत स, क्षतपरातपराज्यपरिग्रहः । स्वपुरमाप्य समास्त पुनः पुना, रसमयान् समयाननयन्महैः ॥ १२ ॥ अन्वयः-स सुरधुनीतटगान् अधुनीत क्षतपरातपराज्यपरिग्रहः स्वपुरमाप्य पुनः पुनः महैः रसमयान् समयान् अनयत् समास्त ॥ १२ ॥ व्याख्या–स भरतचक्रवर्ती मुरधुनीतटगान् गंगातटस्थान् अधुनीत अकंपयत पराजितवान् क्षतपरातपराज्यपरिग्रहः क्षतात दुःखाव परे भिन्नाः रहिता इत्यर्थः इति क्षतपराः तपतीति तपः सूर्यः आतपाद सूर्यप्रकाशपर्यन्तं मर्यादायामव्ययीभावः क्षतपराः आतपं. राज्यपरिग्रहो यस्य सक्षतपरातपराज्यपरिग्रहः स्वपुरं वनगरम् आप्य प्राप्य समागत्येत्यर्थः पुनः पुनः भूयोभूयः महैः उत्सवैः "मह उद्धव उत्सव इत्यमरः" रसमयान् सरसान समयान कालान् अनयन व्यतीतयन् समास्त आतिष्ठते ॥ अन्यपक्षेऽपि स मुरधुनीतटगान सुरान् देवान् धुनाति स्वसा. मध्येन कम्पयतीति सुरधुनी राक्षससेना तस्यास्तटं समीपं कक्षं वा वत्र गच्छत्तीति तान् राक्षससेनापक्षपातिना अधुनीत व्यकंपयत यद्वा
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy