________________
४०४
महोपाध्यायश्रीमेघविजयगणिविरचिते सक्षसम्धानमहाकार
नाम्नी गुफां ध्रुवमतीत्य समुल्लंघ्य तदुदग्दिशः तदुत्तरदिशायाः जनम् तदुददिशस्थितम्लेच्छादिलोकम् शमधीरणया शमा शान्ता या धी. बुद्धिस्तस्या ईरणया प्रेरणया शांतिबुद्धिप्रयोगेन वशम् स्वाधीनम् आत्मसात् अधात् अकृत ॥ ९ ॥ परदलत्रितयं दलयन् बलं,
प्रचलयन कलयन् सततो धनम् । ऋषभकूटनिजाह्वयलेखने,
महिमभूहिमभूभृतमभ्यगात् ॥ १० ॥ अन्वयः----स परदलन्त्रितयं दल यन् बलम् प्रचलयन तत: धनम् कलयन् ऋपभकूट नि जाह्वयलेखने महिमभूहिमभृतम् अभ्यगात् ॥ १० ॥ - व्याख्या–स चक्रवर्ती परदलत्रितयं परेषां शत्रूणां आपात, नाग हुमार, हिमाद्रिकुमाराणां दलत्रितयं सैन्यत्रयम् दलयन पराजजयमानः बलं स्वकीयसैत्यम् प्रचलयन् गमयन् ततः पराजितनृपात् धनम् संपत् कलयन् संचिन्वन् ऋषभकूटनिजाह्वयलेखने ऋपभकूटनामपर्वते यनिजाह्वयलेखनम् स्वाभिधानाङ्कनम् तस्मिन् " निमित्ते सप्तमी" महिमभूहिमभूभृतम् महिम्नः महत्तायाः भूःस्थानम् इति महिमभूः स चासौ हिमभूभृचेति महिमभूहिमभूभृत् हिमालयपर्वतस्तं अभ्यगात् अभ्ययासीत् ॥ १० ॥ पुनरुपेत्य धरं खचरेशिनां,
परदरीमपि खण्डनिपातिनीम् । समतिगत्य निधीन्नव सन्निधी,
_ न स मदी समदीधरदीश्वरः ॥ ११ ॥
अन्वयः-पुनः खचरेशिनाम् धरम् उपेत्य खंडनिपातिनीम् परदरीमपि समगिस्य न समदी ईश्व:: सन्निधौ नवनिधीन समदीधरत् ॥ ७ ॥