Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 418
________________ ३९४ महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये सानन्दधीऋषभवृत्तशमप्रवृत्ति, नोसजमालिवदनं तदनन्तकायम् । सानन्दशङ्खचुलनीप्रियदीर्घवृत्त्या, गोशालिभद्रचरितस्फुरितं जगाद ॥ ४० ॥ अन्धयः-सानन्दधीऋषभवृत्तशमप्रवृत्तिम् जमालिवदनम् तदनन्तकायम् नो सत् सानन्दशंखचुलनी प्रियदीर्घवृत्या गोशालिभद्रचरितस्फुरितं जगाद ॥१०॥ व्याख्या-आनन्दः आनन्दनामा श्रावकः तस्य धीः बुद्धिः तस्याम् ऋषभा श्रेष्ठा वृत्ता दृढा " वृत्तं वृत्तौ दृढे मृते " इति हैमः या शमप्रवृत्तिः शांतिभावसंचारस्तेन सहिता इति सानन्दधीऋषभ वृत्तशमप्रवृत्तिः ताम् जगाद अथ च जमालिवदनम् जमालेः प्रथम निवस्य वदनं, उद्यत इति वद्धातोः भावे अनद कथनं नो सत् न परमार्थसाधनयोग्यम् यतः अनन्तकायम् अनन्तानन्तशरीरसम्पादकम् सानन्दशंखचुलनीप्रियदीर्घवृत्या सानन्दः सप्रमोदः यः शंखः स च चुलनीप्रियश्च तयोर्द्वन्द्वः तस्य दीर्घवृत्या चिरवृत्त्या गोशालिभद्रचरितस्फुरितम् गोशालिभद्रस्य यच्चरितं चरित्रम् तेन स्फुरितम् विल. सितम् जगाद उपदिदेश ॥ अन्यतीर्थकरचतुष्टय पक्षे--आनन्देन सहिता धीर्येषां ते सानन्दधियः ते च ते ऋषभाः श्रेष्ठाश्चेति सानन्दधीऋषभाः "अविवक्षया न संधिः" तेषां वृत्ते व्यवहारे शमं प्रवर्तयति योजयतीति शमप्रवृ त्तिम् असजम् परस्परवाधसहितम् आलिवचनम् आलम् अनर्थोत्रास्तीति आलि तच्चवदनश्चेति आलिवचनम् नो नैव भवति तद् अनन्तकायम् अनन्तशरीरजनकत्वादेव न तथाभूतन्न सानन्दशंखचुलनीप्रियदीर्घवृत्त्या आनन्दयति श्रावकजनमनोह्लादयतीति आनन्दः शं सुखं. जनयतीति शंखः श्रेयस्करः चोलयति समुच्छाययतीति चुलनी यद्वा

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480