Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha

View full book text
Previous | Next

Page 398
________________ ३७४ महोपाध्यायश्रीमेषविजयगणिविरचिते सप्तसन्धानमहाकाव्ये अन्वयः-भीष्मः ग्रीष्मर्तुराट् स्त्रैः पत्रवाह निवहैः परपत्रबाहान् भन्यान् शाखिनः सहकारमुख त्यक्त्वैव न ददाह किन्नु ददाहेव एवम् नवजडाश अपंक. भागान् ग्याशोषयत् ॥ १८ ॥ व्याख्या-स मीष्मः तापजनकः ग्रीष्मर्तुगट ऋतुषु राजते इति ऋतुराट् ग्रीष्मनासौ ऋतुराट् चेति ग्रीष्मर्तुगट स्वैः स्वकीयः पत्रवाहनिवहैः पत्रम् दलम् चाहयन्ति इतस्ततश्वालयन्तीति पत्रवाहा वायवः तैः दावाग्निसंसर्गेण वह्निनायैः परपत्रवाहान् परमुत्कृष्टम् पत्रम् पर्णवहन्ति धारयन्तीति परपत्रवाहाः तान् अन्यान् भिन्नान शाखिन: वृक्षान् सहकारमुखम् सहकारप्रधानम् चूतप्रमुखम् मुक्त्वैव परित्यज्यैव न ददाह किन्तु ददाहैव एवम् इत्थम् नवजडाशयपंकभागान् डलयोः साम्यात् नवानां नूतनानां जलाशयानां अल्पसरसां पङ्कभागान् कर्दमांशान व्याशोषयत् शुष्कतामनयत् ।। वक्रोक्त्यलंकारः ।। अन्यत्रार्थे । ग्रीष्म राट् ग्रीष्म रिव राजते इति ग्रीष्मर्तराद् स भीष्मः भीष्मपितामहः अथवा ग्रीष्मत्तौ राजते विशेषेण तापयति जनानिति ग्रीष्मर्तुराट् सूर्यः भीष्मः प्रचण्डः अन्यान् निरपेक्षानुदासीनानित्यर्थः पराङ्मुखान्वा परपत्रवाहान् परेषां पत्रम् सन्देशपत्रम् बहन्ति प्रापयन्तीति तान् परप्रेष्यान शाखिन: शाखा देहावयव विशेषः येषां सन्ति ते शाखिनः तान् खपत्रवाह निव हैः स्वकीयबाणैने ददाह न भस्मचकार सहकारमुखम् सहायकनृपप्रमुखम् त्यक्त्वा परित्यज्य नवजडाशयपङ्कभागान नवानाम् नवीनानाम् जडाशयानाम् कुटिलहृदयानाम् पङ्कभागान् पापान् मालिन्यभागान "अस्वीपवं पुमान् पाप्मा पापं किल्बिषकल्मषमित्यमरः" व्याशोपयत् शुष्कतामनयत् ॥१८॥ शौचं प्रभातसमयं शमयन्तमन्त. दहिं घनाघनघटाप्रकटाम्बुवृष्टया ।

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480