Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________
आचार्यश्रीविजयामृतरिप्रणीता सरणी टीका. सर्ग-४ ३९. भूमीभुजः समनुजा दनुजानुजात्या
कान्त्या लसत्सुमनसो मनसोऽनुरागात् । तत्रैत्य चैत्यनमनान्न मनाक् प्रमत्ता
स्तस्थुर्गणेशपददर्शनदत्तचित्ताः ॥ ३७ ॥
अन्वयः -- समनुजा भूमीभुजः नु दनुजा जात्या कात्या लसतसुमनसो मनसोऽनुरागात् तत्रैत्य चैत्यनमनात् मनाक न प्रमत्ताः गणेशपददर्शनदत्तचित्ताः तस्थुः ॥ ३७ ॥
व्याख्या-समनुजाः सलोकाः भूमीभुजः राजानःनु इति वितर्के दनुजाः दानवाश्च जात्या श्रेष्ठभूताः कान्त्या दीप्त्या लसत्सुमनस: लसन्त शोभमाना: सुष्ठु मनो येषान्ते लसत्सुमनसः शोममानहृदयाः देवाश्च मनसः स्वान्तस्य अनुरागात् प्रेमतः तत्र तस्मिन् स्थाने एत्य समागत्य चैत्य नमनात् नमस्कारात् मनाक ईषदपि न प्रमत्ताः न सालसाः सर्वदैव सावधाना इत्यर्थः गणेशपददर्शनदत्तचित्ताः गणेशा. नाम् गणधराणाम् पददर्शने चरणदर्शने दत्तचित्ताः संलग्नमनसः तस्थुः स्थिताः "चैत्यविहारौ जिनसमनीति हैम:" अश्लोके वसंततिलकं वृत्तम् "क्षेयं वसन्ततिलकं तभजा जगोगः" इति तल्लक्षणात् ॥ ३७ ॥ सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकस इत्यमरः ॥ स-श्रेणिकस्यनृपतेः सुदृशोऽनुषङ्गं,
मेघाभयादिचरणप्रतिपत्तिरङ्गम् । अद्वैतसौधरसभृच्चरितोपदेश,
चके प्रभुः ससहकारफलोपहारम् ॥ ३८ ॥
भन्वयः-स प्रभुः सुदृशः श्रेणिकस्य नृपतेः अनुषाम् मेधाभयादिचरणप्रतिपत्तिरजाम् अद्वैतसौधरसभृच्चरितोपदेशं ससहकारफलोपहारम् चके |॥३८॥

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480