SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीविजयामृतरिप्रणीता सरणी टीका. सर्ग-४ ३९. भूमीभुजः समनुजा दनुजानुजात्या कान्त्या लसत्सुमनसो मनसोऽनुरागात् । तत्रैत्य चैत्यनमनान्न मनाक् प्रमत्ता स्तस्थुर्गणेशपददर्शनदत्तचित्ताः ॥ ३७ ॥ अन्वयः -- समनुजा भूमीभुजः नु दनुजा जात्या कात्या लसतसुमनसो मनसोऽनुरागात् तत्रैत्य चैत्यनमनात् मनाक न प्रमत्ताः गणेशपददर्शनदत्तचित्ताः तस्थुः ॥ ३७ ॥ व्याख्या-समनुजाः सलोकाः भूमीभुजः राजानःनु इति वितर्के दनुजाः दानवाश्च जात्या श्रेष्ठभूताः कान्त्या दीप्त्या लसत्सुमनस: लसन्त शोभमाना: सुष्ठु मनो येषान्ते लसत्सुमनसः शोममानहृदयाः देवाश्च मनसः स्वान्तस्य अनुरागात् प्रेमतः तत्र तस्मिन् स्थाने एत्य समागत्य चैत्य नमनात् नमस्कारात् मनाक ईषदपि न प्रमत्ताः न सालसाः सर्वदैव सावधाना इत्यर्थः गणेशपददर्शनदत्तचित्ताः गणेशा. नाम् गणधराणाम् पददर्शने चरणदर्शने दत्तचित्ताः संलग्नमनसः तस्थुः स्थिताः "चैत्यविहारौ जिनसमनीति हैम:" अश्लोके वसंततिलकं वृत्तम् "क्षेयं वसन्ततिलकं तभजा जगोगः" इति तल्लक्षणात् ॥ ३७ ॥ सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकस इत्यमरः ॥ स-श्रेणिकस्यनृपतेः सुदृशोऽनुषङ्गं, मेघाभयादिचरणप्रतिपत्तिरङ्गम् । अद्वैतसौधरसभृच्चरितोपदेश, चके प्रभुः ससहकारफलोपहारम् ॥ ३८ ॥ भन्वयः-स प्रभुः सुदृशः श्रेणिकस्य नृपतेः अनुषाम् मेधाभयादिचरणप्रतिपत्तिरजाम् अद्वैतसौधरसभृच्चरितोपदेशं ससहकारफलोपहारम् चके |॥३८॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy