SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ३९. महोपाध्यायश्रीमेघविजयगणिविरचिसे सप्तसम्भानमहाकाव्ये च कान्तिः प्रसन्नता जगदाक्रान्दकारिणो रावणस्योच्छेदात शालीना औद्धत्यम राक्षसानामिति शेषः निलीना निरस्ता विलसन्तः विलसमानान अमलीनाः निष्कल्मषाः निरस्तापकारबुद्धयश्च आततपाः गृहीतव्रता तेषां इन्द्व इति विलसदमलीनादृततपाः अभवनिति शेषः तदानीम्मेघनादादिना दीक्षाग्रहणत्वादिति भावः ।। ३५ ।। कैवल्यशालिभगवत्कपिले नयार्चा श्रेष्ठा प्रतिष्ठितिमनीयत सौम्यदृष्टिः । इत्यादिदेश जिनराट् स तदादि देश देवादयः सहृदया हृदये दधुर्गाम् ॥ ३६ ॥ अन्वयः- कैवल्यशालि भगवस्कपिले (येन) श्रेष्ठा नयार्चा प्रतिष्ठितिमनी. यत स सौम्यद्रष्टिः इति जिनराट् आदिदेश तदादि देशदेवादयः सहृदया: गाम् हृदये दधुः ॥ ३६ ॥ व्याख्या-कैवल्यशालिभगवत्कपिले केवलस्य भावः कैवल्यं तत्र शालन्ते शोभन्ते इति कैवल्यशालिनः ते च ते भगवन्तश्चेति कैवल्यशालिभगवन्तः । कम्पते जनो यतः इति कपि-कामः तं लाति छिनत्ति इति कपिल -सरध्न इत्यर्थः । कैवल्यशालिभंगवन्तव ते कपिलाश्च कैवल्यशालिभगवत्कपिलाः तत्र कैवल्यशालिभगव कपिले। येन श्रेष्ठासद्भावमाविता-सत्सम्पत्सम्पादिता नयार्चा नयेन-विधिना या अचर्चा सपर्या सा.नया, "पूजा नमस्यापचितिः सपर्या हणा समा” इत्यमरः प्रतिष्ठितिम्-सुस्थितिम् अनीयत नीता । स सौम्यदृष्टिसौम्या ऋजु दृष्टि:-दर्शनं यस्य स सौम्यदृष्टिः सम्यग्दृष्टिरित्यर्थः । इति एवंप्रकारेण जिनराट्-जिनेषुसामान्यकेवलिषु राजते शोभते इति जिनराट-तीर्थकरः आदिदेश उपदिष्टवान् । तदादि-तत आरभ्य देशदेवादयः-दिशन्ति अभिल. पितमिति देशाः ते च ते देवा देशदेवास्ते आदौ येषान्ते देशदेवादयः= सुरासुरप्रभृतयः । सहृदया-समानं हृदयं येषान्ते सहृदया: मनिषिणः माम् पूर्वप्रथितां परमात्मवाचं हृदयेअन्तःकरणे दधुः दधति स्म। . यमकालङ्कारः ॥ ३६॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy