________________
भाचार्यजीविजपास्तरिप्रणीता सरणी टीका. सर्ग--
१८५
अन्वयः-तपसि जपसिद्धेः कपिपत्तेः स सीतासंतापः कौशल्यात् भारतभुषि विशल्या समितिः उचिता हिमकरविधी कान्तिरुदधौ नृत्रक्षोर्विक्षो. भात् लिलीना शालीना विलसदमलीनाहनतपाः ॥ ३५ ॥
व्याख्या-आसमंतात्तापयति क्लेशयति इति आसंतापः सीतेन हिमेन सहितः ससीतः स चासौ आसंतापश्चेति ससीतासंतापः तपसि मासे शीतजनितसंतापस्यापि दुःखजनकत्वात् तापः कविना वर्णितः हिमकरविधौ हिमकरस्य विधिरिव विधिरिति तस्मिन शीतकारके जप. सिद्धेः जपेन मौनेन सिद्धिनिष्पतिर्यस्य तस्य कपिपतेर्वानरपतेः तेषां शीताधिक्यात् कौशल्यात् नैपुण्यात् विशल्या दुःखनिवारिका समितिः सभा भारतभुवि साग्निभुवि प्रज्वलिताग्निप्रदेशे उचिता योग्या नृचक्षोः विक्षोभात् मनुष्यनेत्रप्रसरवैकल्यात् कांतिर्दीप्तिः उदधौ समुद्रे नेत्रपिधानकारकहिमावरणतः उदधिप्रायस्सर्वमवभासते निलीना शालीना शालीना निर्लजता निलीना नष्टा सर्वेषामापादवस्त्रधारकत्वानिर्लज्जता गता विलसदमलीनाहततया विलसन्तः प्राप्तविलासाः ते च अमलीनाः अकलुषिताश्चेति विलसदमलीनाः ते च आस्ततपाश्चेति विलसदमलीनाहततपा भवन्तीति शेषः ।। ३५ ॥ शिखरिणीवृत्तम् रसै रुद्रश्छिन्ना यमनसभलागः शिखरिणीति लक्षणात्
अन्यपक्षे-कपिपतेः सुग्रीवस्य अथच कम्पते संग्रामाय प्रच. लतीति कपिः सेनापतिस्तस्य नायकस्य रामादेः तपसि तपश्चर्यायां व्रतनियमे जपसिद्धेः मानसिकतपोव्यापारसिद्धेः प्रागिति शेषः स प्रसिद्धः सीतासंतायः सीताहरणजन्यदुःख जातमिति शेषः कौशल्या राममाता विशल्या दुःखशोकरहिता जातेति शेषः नारदवचनादिति भावः आत अस्मात् भारतमुवि लंकानगरे समितिः नरवानरराक्षम्रानां परिषत् उचिता संमता विगतः क्षोभो यसात् स विक्षोभस्तस्मात् नृचक्षोर्नरनेत्रस्य रामनयनस्य क्षोमराहित्यात् हिमकरविधौ चन्द्रे समुद्रे