Book Title: Saptasandhan Mahakavya
Author(s): Meghvijay, Amrutchandracharya
Publisher: Jain Sahitya Vardhak Sabha
View full book text
________________
१६ महोपाध्यायश्रीमेघविजयगणिविरचिते सहसन्धानमहाकाव्ये तत्रार्कभूः समुदितो भटकोटियोद्धा,
रोद्धाऽपहस्तयति हस्तिशतं स्वतन्त्रः । बाणप्रकर्षपिहिताम्बरदिग्विधानः,
स्वर्गेशनन्दनजयेन कृताभिमानः ॥ १३ ॥
अन्य:-तत्र अर्कभूः समुदितः भटकोटियोद्धा रोद्धा स्वतंत्रा हस्तिशतम् अपहरतयति बाणप्रकर्षपिहिताम्रदिग्विधान: स्वर्गेशनन्दनजयेन कृताभिमानः॥१३॥
व्याख्या-तत्र ऋतुप्रसंगे अर्कभूः अर्कात् सूर्याद्भवतीत्यर्कभूः राधेयः वैशाखः “वैशाखे माधवो राध इत्यमर।" यद्वा अर्कभूः अर्कस्य पुष्पविशेषस्य भूरुत्पत्तिस्थानमिति "आकडा" इतिख्यातस्येत्यर्थः तत्र तस्य प्रभृतत्वात् "अहिवसुकास्फोटगणरूपविकीरणा इत्यमरः" वैशाखमासः समुदितः ऋतुप्रसंगेन प्राप्तः भटकोटियोद्धा भटन्ति हिमं धारयन्तीति भटा हिमधारका तेषां कोटिः भटकोटिः तं योधयतीति भटकोटियोद्धा हिमनाशकः "वैशाखे नरवानरावित्यभियुक्तोक्तेः” रोद्धा अत एव हिमरोद्धा निवर्तकः स्वतंत्रः स्वाधीनः हस्तिशतम् हस्तो हस्तनक्षत्रमस्मिन्नस्तीति, हस्ती हस्त: अश्विन्यादित्रयोदशनक्षत्रम् "हस्त: देहावयव मेदे. हस्तिशुण्डे, अश्विन्यादि त्रयोदशनक्षत्रे, इति शब्दस्तोममहानिधिः" तद्वान् अश्विन्याम्मेषेरविर्यदा भवति तत एव नक्षत्र तिरिति नक्षत्रप्रवर्तकत्वेनेति भावः तेषां शतम् अपहस्त यति प्रवर्तयति वाणानाम् वनवहीनाम् "बाणः शरे वही गवांस्तने दैत्य मेदे इति शब्दस्तोममहानिधिः" प्रकर्षेण प्राबल्येन पिहित आच्छादितः अन्धः कारीकृतः दिग्विधानः दिविभागो येन स पाणप्रकर्षपिहिताम्बरदिविधाना, खर्गेशनन्दनजयेन कृताभिमानः स्वर्गेश इन्द्रा तन्नन्दयः तीति स्वगेशनन्दनो वायुः तस्य जयः उत्कर्षप्राप्तिस्तेन कृताभिमान: तगौरवः, वैशाखे वायोः प्राबल्येन वैशाखस्य गर्विष्ठतेति भावः ॥

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480