Book Title: Sammatyakhya Prakaranam
Author(s): Siddhasen Divakarsuri
Publisher: Unknown

View full book text
Previous | Next

Page 25
________________ २५ तत्त्वबोधविधायिनी व्याख्या । मर्थक्रियास्थितिरविसंवादनम्' इति । तथा 'प्रामाण्यं व्यवहारेणार्थक्रियालक्षणेन' इति च । तस्माद्यत्प्रमाणस्यात्मभूतमर्थक्रियालक्षणपुरुषार्थाभिधानं फलं, यदर्थोऽयं प्रेक्षावतां प्रयासः; तेन स्वतः सिद्धेन फलान्तरं प्रत्यनङ्गीकृतसाधनान्तरात्मतया 'प्रमाणमविसंवादिज्ञानम्' इति प्रमाणलक्षणविरहिणा साधननिर्भासिज्ञानस्यानुत्क्रान्तरूपफलप्रापणशक्तिस्वरूपस्य प्रामाण्याधिगमेऽनवस्थाप्रेरणा क्रियमाणा परस्यासङ्गतैव लक्ष्यते । यदुक्तम् । अनिश्चितप्रामाण्यादपि साधनज्ञानात्प्रवृत्तावर्थक्रियाज्ञानोत्पत्ताववाप्तफला अपि प्रेक्षावन्तो यथा साधनज्ञानप्रामाण्यविचारणायां मनः प्रणिधति; अन्यथा तत्समानरूपापरसाधनज्ञानप्रामाण्यनिश्चयपूर्विकाऽन्यदा प्रवृत्तिर्न स्यात्; तथाऽर्थक्रियाज्ञानस्यापि प्रामाण्यविचारणायां प्रेक्षावत्तयैव ते आद्रियन्ते; अन्यथाऽसिद्धप्रामाण्यादर्थक्रियाज्ञानात्पूवस्य प्रामाण्यनिश्चय एव न स्यादित्यवाप्तफलत्वमनर्थकमिति । तदप्ययुक्तम् । अर्थक्रियाज्ञानस्य स्वत एव प्रामाण्यम्, साधनस्य तु तजनकत्वेन प्रामाण्यमिति प्रतिपादितत्वात् । यदभ्यधायि । यदि संवादात्पूर्वस्य प्रामाण्यं निश्चीयते तदा ‘श्रोत्रधीरप्रमाणं स्यादितराभिरसङ्गतेः' अपि । तदप्ययुक्तम् । गीतादिविषयायाः श्रोत्रबुद्धेरर्थक्रियानुभवरूपत्वेन स्वत एव प्रामाण्यसिद्धेः । तथा चित्रगतरूपबुद्धेरपि स्वत एव प्रामाण्यसिद्धिः । अर्थक्रियाऽनुभवरूपत्वात्। गन्धस्पर्शरसबुद्धीनां त्वर्थक्रियानुभवरूपत्वं सुप्रसिद्धमेव । यदप्युक्तम् । किमेकविषयं, भिन्नविषयं वा संवादज्ञानं पूर्वस्य प्रामाण्यनिश्चायकमित्यादि । तत्रैकसङ्घातवर्त्तिनो विषयद्वयस्य रूपस्पर्शादिलक्षणस्यैकसामग्यधीनतया परस्परमव्यभिचा. रात् , स्पर्शादिज्ञानं जाग्रदवस्थायामभिवाञ्छितस्पर्शादिव्यतिरेकेणासंभवद्भिन्नविषयमपि स्वविषयाभावेऽप्याशङ्कयमानरूपज्ञानस्य प्रामाण्यं निश्चाययतीति न तत्संगतमेवम् । अतएव रूपाद्यर्थाविनाभावित्वाद् ध्वनीनां तद्विशेषशङ्कायां क्वचिट्ठीणादिरूपप्रतिपत्तौ तद्विशेषशङ्काव्यावृत्तेस्तद्रूपदर्शनसंवादादपि प्रामाण्यनिश्चयः सिद्धो भवति । यच्चोक्तम् । किं संवादज्ञानं साधनज्ञानविषयं तस्य प्रामाण्यं व्यवस्थापयति, उत भिन्नविषयमित्यादि । तदप्यविदितपराभिप्रायस्याभिधानम् । नहि संवादज्ञानं तद्राहकलेन तस्य प्रामाण्यं व्यवस्थापयति, किन्तु तत्का

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200