Book Title: Sammatyakhya Prakaranam
Author(s): Siddhasen Divakarsuri
Publisher: Unknown

View full book text
Previous | Next

Page 124
________________ १२४ सम्मतिताख्यप्रकरणस्यमिति जन्मान्तरलक्षणस्य परलोकस्य सिद्धिरिष्यते, तत्किमियमर्थापत्तिः, अथानुमान वा।न तावदर्थापत्तिः। तल्लक्षणाभावात् । “दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यते” इति हि तस्या लक्षणं विचक्षणैरिष्यते, न तु जन्मान्तरमन्तरेण नोपपत्तिमदिदं जन्मेति सिद्धम् । मातापितृसामग्रीमात्रकेण तस्योपपत्तेस्तन्मात्रहेतुकत्वे चान्यपरिकल्पनायामतिप्रसङ्गात् । अथ प्रज्ञामेधादयो जन्मादावभ्यासपूर्वका दृष्टाः कथमतपूर्वका भवेयुः; न वह्निपूर्वको धूमः, तत्पूर्वकतामन्तरेण कदाचिदपि भवन्नुपलब्धः । तदप्यसत्। अविनाभावसंबन्धस्य देशकालव्याप्तिलक्षणस्य प्रत्यक्षेण प्रतिपत्तुमशक्तेः। सन्निहितमात्रप्रतिपत्तिनिमित्तं हि प्रत्यक्षमुपलभ्यते; नहि सकलदेशकालयोविना वह्निमसंभव एव धूमस्येति प्रत्यक्षतः प्रतीतिर्युक्ता, अतोन धूमोऽपि वह्निपूर्वकः सर्वत्र प्रत्यक्षानुपलम्भाभ्यां सिद्ध इति कुतस्तेन दृष्टान्तेन जन्मा. न्तरस्वरूपपरलोकसाधनम् । तस्मात्केचित् प्रज्ञामेधादयस्तथाभूताभ्यासपूर्वकाः, केचिन्मातापितृशरीरपूर्वका इति। नच प्रज्ञादयः शरीरतो व्यतिरिच्यमानखभावाः संवेदनविषयतामुपयान्ति । शरीरं च तदन्वयव्यतिरेकानुवृत्तिमदेव दृष्टमिति कथमन्यथा व्यवस्थामर्हति । अथ पूर्वोपात्तादृष्टमन्तरेण कथं मातापितृविलक्षणं शरीरं, न त्वेतेनैव व्यभिचारो दृश्यते। नहि सर्वदा कारणानुरूपमेव कार्यम् । तेन विलक्षणादपि मातापितृशरीराद्यदि प्रज्ञामेधादिभिर्विलक्षणं तदपत्यस्य शरीरमुपजायेत, कदाचित् तदाकारानुकारि तत्कथं वाऽत्र विरोधः। यथा कश्चित् शालूकादेव शालूकः, कश्चिद् गोमयात् ; तथा कश्चिदुपदेशाद्विकल्पः, कश्चित् तदाकारपदार्थदर्शनात् । अथ दर्शनादपि विकल्पः पूर्वविकल्पवासनामन्तरेण कथं भवेत्, तर्हि गोमयादपि शालूकः कथं शालूकमन्तरेणेति एतदपि प्रष्टव्यम्। तस्मात्कार्यकारणभावमात्रमेव तत् । तत्र च नियमाभावादविज्ञानादपि मातापितृशरीराद्विज्ञानमुपजायताम् । अथवा यथा विकल्पायवहितादपि विकल्प उपजायते, तथा व्यवहितादपि मातापितृशरीरत एवेति न भेदं पश्यामः । यथा चैकमातापितृशरीरादनेकापत्योत्पत्तिस्तथैकस्मादेव ब्रह्मणः प्रजोत्पत्तिरिति न जात्यन्तरपरिग्रहः कस्यचिदितिन परलोकसिद्धिः। नहि मातापितृसंबन्धमात्रमेव परलोकः। तथेष्टावभ्युपगमविरोधात् । अथानाधनन्त आत्माऽस्ति, तमाश्रित्य परलोकः साध्यते। नो

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200