Book Title: Sammatyakhya Prakaranam
Author(s): Siddhasen Divakarsuri
Publisher: Unknown

View full book text
Previous | Next

Page 159
________________ तत्त्वबोधविधायिनी व्याख्या । १५९ गन्तव्यः; नचासावन्योऽनुभूयते । अस्त्येतत्कार्यहेतोः, कस्यचित् स्वभावहेतोरपि । अस्य तु बाघकात् प्रमाणाद्विपक्षात्प्रच्युतस्य यदेव साध्यधर्मिणि खसाध्यव्याप्ततया ग्रहणं तदेव साध्यग्रहणम् । नचास्यैवं द्वैरूप्यम् । यतो विपक्षाद्व्यावृत्तिरेवान्वयमाक्षिपति । इयांस्तु विशेषः । कस्यचिद् हेतोर्व्याप्तिविषयप्रदर्शनाय धर्मिविशेषः प्रदर्श्यते, अस्य तु यत्सत्तत् क्षणिकमिति धर्मिविशेषाप्रदर्शनेऽपि धर्मिमात्राक्षेपेण व्याप्तिप्रदर्शनम् । तच्च सत्त्वं कचिद्व्यवस्थितमुपलभ्यमानं क्षणिकताप्रति - पत्त्यङ्गम्; अतः पक्षधर्मताऽप्यत्रास्ति । नचात्रैवम् । अत्राप्येनमेव न्यायं केचिदाहुः । कथं ? तत्र हि व्यापकस्य क्रमस्य यौगपद्यस्य निवृत्त्या विपक्षात्तन्निवृत्तिः । अत्रापि प्रमातृनियतताया व्यापिकाया अभावाद्विपक्षात्प्रतिसन्धानलक्षणस्य हेतोर्निवृत्तिः । अथ तत्र बाधकप्रमाणस्य व्याप्तिः प्रत्यक्षेण निश्चीयते । क्रमयौगपद्याभ्यामर्थक्रियाकरणस्य प्रत्यक्षेण निश्चयात् । अत्र तु कथम् ?। अत्रापि प्रमातृनियमपूर्वकत्वेन खसन्तान एव प्रतिसंधानस्य व्याप्तिनिश्चयात् कथं न तुल्यता ? । अथ ब्रूयात् प्रमातृनियततेत्यस्य भाषितस्य कोऽर्थः, यदि परं भङ्ग्यन्तरेणैककर्तृकत्वं साध्यं व्यपदिश्यते, तस्य प्रत्यक्षेण निश्चयाभ्युपगमे कथं बाधकप्रमाणावसेयता व्याप्तेः । नैतत् । प्रमातृनियतताग्रहणं नैककर्तृकत्वग्रहणम्; सर्व एव हि भावा देशादिनियततयाऽवसीयमानव्यवहारगोचरतामुपयान्ति । प्रमातुरप्यवसाय एवमेव दृश्यते; इदानीमत्राहम् । एवं देशाद्यसंसर्गवत् प्रमात्रन्तरासंसर्गोऽपि निश्चीयते । तथाहि । देशकालनिबन्धननियमवद्व्यतिरिक्तपदार्था संसर्ग स्वभावनियतप्रतिभासोऽपि घटादेरिवात्रै कत्वानेकत्वनिश्चयाभावः । पूर्वपाक्षिकमते तस्य नानाकर्तृकेषु सन्तानान्तरेषु व्यापकस्याभावाद्, विपक्षात्प्रच्युतस्य प्रतिसन्धानस्य क्वचिदुपलभ्यमानस्यैककर्तृकत्वे न व्याप्तिः। यथा क्रमयौगपद्याभ्यामर्थक्रियाकरणदर्शने नैवं निश्चयः, किं क्षणिकैः क्रमयौगपद्याभ्यां सा क्रियते, आहोखिदन्यथेति । अथ च प्रत्यक्षेण बाधकस्य व्याप्त्यवसाये, पश्चाद्यापकानुपलब्ध्या मूलहेतोर्व्याप्तिसिद्धिः, एवमेककर्तृकत्वानवसायेऽपि प्रमातृनियततया प्रतिसन्धानस्य स्वसन्ततौ व्याप्तिनिश्चये सत्युत्तरकालं विपक्षे व्यापकस्य प्रमातृनियतत्वस्याभावादेककर्तृकत्वेन प्रतिसंधानस्य व्याप्तिसिद्धिः । एवमनभ्युपगमेऽह 1

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200