Book Title: Sammatyakhya Prakaranam
Author(s): Siddhasen Divakarsuri
Publisher: Unknown

View full book text
Previous | Next

Page 200
________________ 20. सम्मतिताख्यप्रकरणस्यसंबन्धिनोः स संबन्धः, उतासंबन्धिनोः।नासंबन्धिनोः। हिमवद्विन्ध्ययोरिवासंबन्धिनोः संबन्धानुपपत्तेः / न चासंबन्धिनोभिन्नसंबन्धेन तदभिन्नं संबन्धिलं शक्यं विधातुम् / विरुद्धधर्माध्यासेन भेदात्। नापि भिन्नम्। तत्सद्भावेऽपि तयोः स्वरूपेणासंबन्धित्वप्रसङ्गात् / भिन्नस्य तत्कृतोपकारमन्तरेण तत्संबन्धित्वायोगात् ; ततोऽपरोपकारकल्पनेऽनवस्थाप्रसङ्गात् / संबन्धिनोस्तु संबन्धपरिकल्पनं व्यर्थम्। संबन्ध. मन्तरेणापि तयोः स्वत एव संबन्धिस्वरूपत्वात्। यत्तूक्तम् / विशिष्टावस्थाव्यतिरेकेण क्षितिबीजोदकादीनां नाङ्कुरजनकत्वम्। साच विशिष्टावस्था तेषां संयोगरूपा शक्तिः। तदसारम् / यतो यथा विशिष्टावस्थायुक्ताः क्षित्यादयः संयोगमुत्पादयन्ति, तथा तद्वस्थायुक्ता अङ्कुरादिकमपि कार्य निष्पादयिष्यन्तीति व्यर्थ संयोगशक्तेस्तदन्तरालवर्तिन्याः परिकल्पनम् / अथ संयोगशक्तिव्यतिरेकेण न कार्योत्पादने कारणकलापः प्रवर्त्तत इति निर्बन्धः, तर्हि संयोगशक्त्युत्पादनेऽप्यपरसंयोगशक्तिव्यतिरेकेण नासौ प्रवर्तत इत्यपरा संयोगशक्तिः परिकल्पनीया, तत्राप्यपरेत्यनवस्था। अथ तामन्तरेणापि शक्तिमुत्पादयन्ति, तर्हि कार्यमपि तामन्तरेणैवाङ्कुरादिकं निवर्तयिष्यन्तीति व्यर्थ संयोगशक्तेः तदन्तरालवर्त्तिन्याः कल्पनम् / न च विशिष्टावस्थाव्यतिरेकेण पृथिव्यादयः संयोगशक्तिमपि निवर्तयितुं क्षमाः; तथाऽभ्युपगमे सर्वदा तन्निवर्तनप्रसङ्गादकरादेरप्यनवरतोत्पत्तिप्रसङ्गः / न चान्यतरकर्मादिसव्यपेक्षाः संयोगमुत्पादयन्ति क्षित्यादय इति नायं दोषः। कर्मोत्पत्तावपि संयोगपक्षोक्तदूषणस्य सर्वस्य तुल्यत्वात् / तस्मादेकसामग्यधीनविशिष्टोत्पत्तिमत्पदार्थव्यतिरेकेण नापरः संयोगः। तस्य बाधकप्रमाणविषयत्वात् , साधकप्रमाणाभावाच्च / यस्तु संयुक्ते द्रव्ये एते इति, अनयोर्वाऽयं संयोग इति व्यपदेशः, स भेदान्तरप्रतिक्षेपाप्रतिक्षेपाभ्यां तथाऽवस्थोत्पन्नवस्तुद्वयनिबन्धन एव; नातोऽपरस्य संयोगस्य सिद्धिः / न चाक्षणिकत्वे तयोः स संबन्धो युक्तः। तत्संबन्धस्य समवायस्य निषिद्धत्वात् , निषेत्स्यमानत्वाच्च / न च तजन्यत्वादसौ तत्संबन्धी; अक्षणिकत्वे जनकत्वविरोधस्य प्रतिपादयिष्यमाणत्वात् / क्षणिकत्वेऽपि तयोरेकसामग्यधीना नैरन्तर्योत्पत्तिरेव, नापरसंयोग इति रचनावत्त्वादित्यत्र हेतोविशेषणस्य संयोगविशेषस्य रचनालक्षणस्याऽसिद्धेः तद्वतो विशेष्यस्याप्यसिद्धि

Loading...

Page Navigation
1 ... 198 199 200