Book Title: Sammatyakhya Prakaranam
Author(s): Siddhasen Divakarsuri
Publisher: Unknown

View full book text
Previous | Next

Page 198
________________ १९८ सम्मतितक्कख्यप्रकरणस्य माना पुरः सदेव वस्तु गृहती कथं विपरीतख्यातिर्भवेत् ? । ननु पूर्वरूपग्राहितया तस्याः सदर्थग्रहणमेव न संभवति; स्मरणोपनेयं हि रूपं प्रतियती वर्त्तमानतया प्रत्यक्षबुद्धिर्न प्रतिभासमानवपुषः सत्तां साधयितुमलम्, प्रत्यस्तमितेऽपि रूपे स्मृतेरवतारात्, तदनुसारिणी चाक्षमतिरपि तदेवानुसरन्ती न सत्ताऽऽस्पदम् । तस्मादिन्द्रियमतिः सकलापूर्वरूपग्रहणं परिहरन्ती वर्त्तमाने परिस्फुटे वर्त्तत इति तदैव तद्गतां जातिमुद्रासयितुं प्रभुरिति न पूर्वापरव्यक्तिगता जातिः समस्ति । यदेव हि द्वितीयव्यक्तिगतं रूपं भाति, तदेव सत्; पूर्वव्यक्तिगतं तु रूपं न भातीति न तत्सत् । ततश्चानेकव्यक्तिव्यापिकाया जातेरसिद्धिरिति न तत्र लिङ्गशब्दयोरपि प्रवृत्तिरिति न ताभ्यामपि तत्प्रतिपत्तिः । यथा च व्यक्तिभिन्नाऽनुस्यूता जातिर्न संभवति, तथा यथास्थानं प्रतिपादयिष्यत इत्यास्तां तावत् । तदेवं सत्तासमवाययोः परपरिकल्पितयोरसिद्धेः प्रागसतः कारणसमवायः सत्तासमवायो वा कार्यत्वमिति कार्यत्वस्यासिद्धत्वात् स्वरूपासिद्धोऽपि कार्यवलक्षणो हेतुः । अथ स्यादेष दोषो यदि यथोक्तलक्षणं कार्यलं हेतुलेनोपन्यस्तं स्यात्; यावताऽभूला भवनलक्षणं कार्यत्वं हेतुले - नोपन्यस्तं तेनायमदोषः । नन्वेवमपि भूभूधरादेः कथमेवंभूतं कार्यलं सिद्धम् । अथ यद्यत्र विप्रतिपत्तिविषयता, तदाऽनुमानतस्तेषु कार्यत्वं साध्यते तच्चानुमानम्-भूभूधरादयः कार्य, रचनावत्स्वाद्, घटादिवदिति कथं न तेषु कार्यत्वलक्षणो हेतुः सिद्धः १ । असदेतत् । यतोऽत्रापि प्रयोगे भूभूधरादेरवयविनोऽसिद्धेराश्रयासिद्धो रचनावत्वादिति हेतु:, तदसिद्धत्वं च प्राक् प्रतिपादितम् । किञ्च । किमिदं रचनावत्त्वम् । यद्यवयवसन्निवेशो रचना, तद्वत्त्वं च पृथिव्यादेस्तदुत्पाद्यत्वम्, तदाऽवयवसन्निवेशस्य संयोगापरनाम्नोऽसिद्धत्वादसिद्धविशेषणो रचनावत्त्वा दिति हेतु:, तथा पृथिव्यादिषु संयोगजन्यत्वस्य विशेष्यस्यासिद्धत्वादसिद्धविशेष्यश्च प्रकृतो हेतुः । कथं संयोगासिद्धत्वम् ? येनोक्तदोषदुष्टः प्रकृतो हेतुः स्यात् । उच्यते। तद्ग्राहकप्रमाणाभावात्, बाधकप्रमाणोपपत्तेश्च । तथाहि । “संख्यापरिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपिसमवायाच्चाक्षुषाणि ” इति वचनात् दृश्यवस्तुसमवेतस्य संयोगस्य परेण प्रत्यक्षग्राह्यत्वमभ्युपगतम् । न च

Loading...

Page Navigation
1 ... 196 197 198 199 200