Book Title: Sammatyakhya Prakaranam
Author(s): Siddhasen Divakarsuri
Publisher: Unknown

View full book text
Previous | Next

Page 199
________________ तत्त्वबोधविधायिनी व्याख्या । निरन्तरोत्पन्नवस्तुद्वयप्रतिभासकालेऽध्यक्षप्रतिपत्तौ तद्व्यतिरेकेणापरः संयोगो बहिग्राह्यरूपतां बिभ्राणः प्रतिभाति, नापि कल्पनाबुद्धौ वस्तुद्वयं यथोक्तं विहाय, शब्दोल्लेखं चान्तरमपरं वर्णाकृत्यक्षराकाररहितं संयोगखरूपमुदाति । तदेवमुपलब्धिलक्षणप्राप्तस्य संयोगस्यानुपलब्धेरभावः, शशविषाणवत्।तेन यदाहोद्योतकर:-यदि संयोगो नार्थान्तरं भवेत्तदा क्षेत्रबीजोदकादयो निर्विशिष्टत्वात् सर्वदैवाङ्कुरादिकार्य कुर्युः, न चैवम् । तस्मात् सर्वदा कार्यानारम्भात् क्षेत्रादीन्यकुरोत्पत्तौ कारणान्तरसापेक्षाणि; यथा मृत्पिण्डादिसामग्री घटादिकरणे कुलालादिसापेक्षा; योऽसौ क्षेत्रादिभिरपेक्ष्यः स संयोग इति सिद्धम् । किञ्च । असौ संयोगो द्रव्ययोविशेषणभावेन प्रतीयमानवात् ततोऽर्थान्तरलेन प्रत्यक्षसिद्ध एव । तथाहि । कश्चित्केनचित्संयुक्ते द्रव्ये आहरेत्युक्ते ययोरेव द्रव्ययोः संयोगमुपलभते, ते एवाहरति, न द्रव्यमात्रम् । किश्च । दूरतरवर्तिनः पुंसः सान्तरेऽपि वने निरन्तररूपावसायिनी बुद्धिरुदयमासादयति; सेयं मिथ्याबुद्धिः मुख्यपदार्थानुभवमन्तरेण न क्वचिदुपजायते । नाननुभूतगोदर्शनस्य गवये गौरिति विभ्रमो भवति । तस्मादवश्यं संयोगो मुख्योऽभ्युपगन्तव्यः । तथा न चैत्रः कुण्डलीत्यनेन प्रतिषेधवाक्येन न कुण्डलं प्रतिषिध्यते, नापि चैत्रः । तयोरन्यत्र देशादौ सत्त्वात्। तस्साच्चैत्रस्य कुण्डलसंयोगः प्रतिषिध्यते। तथा चैत्रः कुण्डलीय. नेनापि विधिवाक्येन न चैत्रकुण्डलयोरन्यतरविधानम्। तयोः सिद्धत्वात् ; पारिशेष्यात् संयोगविधानम्। तस्मादस्त्येव संयोग इति। तन्निरस्तं द्रष्टव्यम् । संयुक्तद्रव्यखरूपावभासव्यतिरेकेणापरस्य संयोगस्य प्रत्यक्षे निर्विकल्पके सविकल्पके वा ऽप्रतिभासस्य प्रतिपादितत्वात् । न च संयुक्तप्रत्ययान्यथानुपपत्त्या संयोगकल्पनोपपन्ना। निरन्तरावस्थयोरेव भावयोः संयुक्तप्रत्ययहेतुत्वात् । यावच्च तस्यामवस्थायां संयोगजनकलेन संयुक्तप्रत्ययविषयौ ताविष्येते, तावत्संयोगमन्तरेण संयुक्तप्र. त्ययहेतुत्वेन तद्विषयौ किं नेष्येते?, किं पारम्पर्येण ?।नच सान्तरे वने निरन्तरावभासिनी बुद्धिः मुख्यपदार्थानुभवपूर्विकाऽस्खलत्प्रत्ययत्वेनानुपचरितवात् न चैत्रः कुण्डलीत्यादौ चैत्रसंबन्धिकुण्डलं निषिध्यते विधीयते वा, न संयोगः।नच संबन्धव्यतिरेकेण चैत्रस्य कुण्डलसंबन्धानुपपत्तिरिति वक्तुं शक्यम् । यतक्षेत्रकुण्डलयोः किं

Loading...

Page Navigation
1 ... 197 198 199 200