Book Title: Sammatyakhya Prakaranam
Author(s): Siddhasen Divakarsuri
Publisher: Unknown

View full book text
Previous | Next

Page 1
________________ ॥ अहम् ॥ श्रीसिद्धसेनदिवाकररचितंसम्मत्याख्यप्रकरणम् । SA राजगच्छीय-तर्कपश्चानन-न्यायचक्रवर्ति-श्रीमदभयदेवसूरिनिर्मितया तत्त्वबोधविधायिन्याख्यया व्याख्यया समुल्लसितम् । स्फुरद्वागशुविध्वस्तमोहान्धतमसोदयम् । वर्द्धमानार्कमभ्यर्च्य यते सम्मतिवृत्तये ॥१॥ प्रज्ञावद्भिर्यद्यपि सम्मतिटीकाः कृताः मुबहाः । ताभ्यस्तथाऽपि न महानुपकारः स्वल्पबुद्धीनाम् ॥ २ ॥ शेमुष्युन्मेषलवं तेषामाधातुमाश्रितो यत्नः।। मन्दमतिना मयाऽप्येष नात्र संपत्स्यते विफलः ॥ ३ ॥ इह च शारीरमानसानेकदुःखदारियोपद्रवविद्वतानां निरुपमानातिशयानन्तशिवसुखानन्यसमावन्ध्यकारणसम्यग्ज्ञानदर्शनचारित्रात्मकपरमरत्नत्रयजिघृक्षयाऽतिगम्भीरजिनवचनमहोदधिमवतरीतुकामानां तदवतरणोपायमविदुषां भव्यसत्त्वानां तदर्शनेन तेषां महानुपकारः प्रवर्त्ततां तत्पूर्वकश्चात्मोपकार इति मन्वान आचार्यो दुष्षमाऽरसमाश्यामासमयोद्भूतसमस्तजनताहादसतमसविध्वं. सकवेनावाप्तयथार्थाभिधानः सिद्धसेनदिवाकरः तदुपायभूतसम्मत्याख्यप्रकरणकरणे प्रवर्त्तमानः 'शिष्टाः क्वचिदभीष्टे वस्तुनि प्रवर्त्तमाना अभीष्टदेवताविशेषस्तवविधानपुरस्सरं प्रवर्त्तन्ते' इति तत्समयप्रतिपालनपरस्तद्विधानोद्भूतप्रकृष्टशुभभावानल्पज्वलदनलनिर्दग्धप्रचुरतरक्लिष्टकर्माविर्भूतविशिष्टपरिणतिप्रभको प्रस्तुतप्रकरणपरिसमाप्तिं चाकलयन्नर्हतामप्यहत्ता शासनपूर्विका पूजि. तपूजका लोको विनयमूलश्च स्वर्गापवर्गादिसुखसुमनःसमूहानन्दामृतरसोदग्रवरूपवाप्तिस्वभावफलप्रदानप्रत्यलो धर्मकल्पद्रुम इति प्रदर्शनपरैर्भुवनगुरुभि प्रतिपालना- इति पाठान्तरम् ।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 200