Book Title: Sammatyakhya Prakaranam Author(s): Siddhasen Divakarsuri Publisher: Unknown View full book textPage 9
________________ तत्वबोधविधायिनी व्याख्या । विशेषात्, उत्तरं प्रथमस्य प्रामाण्यं निश्चाययति, न पुनः प्रथममुत्तरस्य । स च विशेष उत्तरस्य कारणशुद्धिपरिज्ञानानन्तरभावित्वम् । ननु कारणशुद्धिपरिज्ञानमर्थक्रियापरिज्ञानमन्तरेण न सम्भवति तत्र च चक्रकदोषः प्राक् प्रतिपादित इति नार्थक्रियाज्ञानसम्भवः । सम्भवे वा तत एव प्रामाण्यनिश्चयस्य संजातत्वात्, व्यर्थमुत्तरकालभाविनः कारणशुद्धिज्ञानविशेषसमन्वितस्य पूर्वप्रामाण्यावगमहेतुत्वकल्पनम् । तन्न समानजातीयमेकसन्तानप्रभवमेकार्थमुत्तरज्ञानं पूर्वज्ञानप्रामाण्यनिश्चायकम् ॥ अथ भिन्नार्थं तत् ज्ञानं पूर्वज्ञानप्रामाण्यनिश्चायकम् । तदप्ययुक्तम् । एवंसति शुक्तिकायां रजतज्ञानस्य तथाभूतं शुक्तिकाज्ञानं प्रामाण्यनिश्चायकं स्यात् । तन्न समानजातीयमुत्तरज्ञानं पूर्वज्ञानस्य प्रामाण्यनिश्चायकम् ॥ अथ भिन्नजातीयं प्रामाण्यनिश्चायकमिति पक्षः । तत्रापि वक्तव्यम् । किम् अर्थक्रियाज्ञानम्, उत अन्यत् । तत्रान्यदिति न वक्तव्यम् । घटज्ञानस्यापि पटज्ञानप्रामाण्यनिश्चायकत्वप्रसङ्गात् । अथार्थकियाज्ञानं संवादकमित्यभ्युपगमः । अयमपि न युक्तः । अर्थक्रियाज्ञानस्यैव प्रामाण्यनिश्चयाभावे, प्रवृत्त्याद्यभावतश्चककदोषेणासम्भवात् । अथ प्रामाण्यनिश्चयाभावेऽपि संशयादपि प्रवृत्तिसम्भवान्नार्थक्रियाज्ञानस्यासम्भवः । तर्हि प्रामाण्यनिश्चयो व्यर्थः । तथाहि । प्रामाण्यनिश्चयमन्तरेण प्रवृत्तो, विसंवादभाक् मा भूवमित्यर्थक्रियार्थी प्रामाण्यनिश्चयमन्वेषते; सा च प्रवृत्तिस्तन्निश्चयमन्तरेणापि संजातेति व्यर्थः प्रामाण्यनिश्चयप्रयासः । किंच । अर्थक्रियाज्ञानस्यापि प्रामाण्यनिश्चायकत्वेनाभ्युपगम्यमानस्य कुतः प्रामाण्यनिश्चयः । तदन्यार्थक्रियाज्ञानादिति चेत् : अनवस्था । पूर्वप्रमाणादिति चेत्; अन्योऽन्याश्रयदोषः प्राक् प्रदर्शितोऽत्रापि । अथार्थकियाज्ञानस्य स्वत एव प्रामाण्यनिश्चयः । प्रथमस्य तथाभावे प्रद्वेषः किंनिबन्धनः ? । तदुक्तम्: "यथैव प्रथमं ज्ञानं तत्संवादमपेक्षते । संवादेनापि संवादः पुनर्मृग्यस्तथैव हि ॥ १ ॥ कस्यचित्तु यदीष्येत स्वत एव प्रमाणता । प्रथमस्य तथाभावे प्रद्वेषः केन हेतुना १ ॥ २ ॥ संवादस्याथ पूर्वेण संवादित्वात् प्रमाणता ।Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 200