Book Title: Sammatyakhya Prakaranam
Author(s): Siddhasen Divakarsuri
Publisher: Unknown

View full book text
Previous | Next

Page 72
________________ सम्मतितर्द्धाख्यप्रकरणस्य " तद्विषयत्वेन विद्यते' इति तदप्यसङ्गतम् । यतः किं प्रत्यक्षेण तदनुभवाभावात् तत्र तच्छिन्नमूलत्वम् उत प्रमाणान्तरेण । तत्र यदि प्रत्यक्षेणेति पक्षस्तदा वक्तव्यम् । किं भवत्संबन्धिना प्रत्यक्षेण तत्र तदनुभवाभावः, उत सर्वसंबन्धिना तत्र तद्नुभवाभावः । यदि भवत्संबन्धिनाः तदागमान्तरेऽपि तत्कर्तृग्राहकत्वेन भवत्प्रत्यक्षस्याप्रवृत्तेः तत्कर्तृस्मरणस्य च्छिन्नमूलत्वेनास्मर्यमाणकर्तृकत्वस्य भावादनैकान्तिकः पुनरपि हेतुः । अथ सर्वसंबन्धिना प्रत्यक्षेणाननुभवः । असावसिद्धः । नह्यर्वागृहशा सर्वेषामत्र तद्ग्राहकत्वेन प्रत्यक्षं न प्रवृत्तिमदिति निश्रेतुं शक्यमिति तत्र तत्स्मरणस्य च्छिन्नमूलत्वासिद्धेः अस्मर्यमाणकर्तृकत्वादित्यसिद्धो हेतुः । अथ प्रमाणान्तरेण तदनुभवाभावः । तत्रापि वक्तव्यम् । आगमलक्षणं किं तत्प्रमाणान्तरमभ्युपगम्यते, उत अनुमानखरूपम् । अपरस्य प्रामाण्यासम्भवात् । तत्र यद्यागमलक्षणेन तदननुभव इति पक्षः । स न युक्तः । हिरण्यगर्भः समवर्तताग्र इत्यादेरागमस्य तत्र तत्सद्भावावेदकस्य संभवात् । नच मन्त्रार्थवादानां खरूपार्थे प्रामाण्याभाव इति वक्तुं शक्यम् । यतो मन्त्रार्थ - वादानां स्वाभिधेयप्रतिपादनद्वारेण कार्यार्थोपयोगिता; तेषां तत्राप्रामाण्ये, विध्यर्थाङ्गताऽपि न स्यात् ॥ अथानुमानेन तत्र तदननुभवः । सोऽपि न युक्तः । अनुमानेन तत्र तदनुभवस्य प्रतिपादितत्वात् । अथानुपलम्भपूर्वकमस्मर्यमाणकर्तृकत्वं यद्यस्माभिर्हेतुत्वेनोच्येत तदा पूर्वोक्तप्रकारेणासिद्धत्वानैकान्तिकत्वें स्याताम्; नतु तत्कर्त्रनुपलम्भपूर्वकम स्मर्यमाणकर्तृकत्वं हेतुः, किन्तु तदभावपूर्वकम् । नन्वत्रापि यदि तदभावः प्रमाणान्तरात् सिद्ध:, तदाऽस्यानुमानस्य वैयर्थ्यम् । नच तदभावप्रतिपादकमन्यत् प्रमाणमस्तीत्युक्तम् । अस्मादेवानुमानात् तदभावसिद्धिः, तदाऽतोऽनुमानात् तदभावसिद्धौ, तत्पूर्वकमस्मर्यमाणकर्तृकत्वं सिद्ध्यति तत्सिद्धौ चातोऽनुमानात् तदभावसिद्धिरितीतरेतराश्रयदोषात्, तदवस्थं सविशेषणस्याप्यस्य हेतोरसिद्धत्वम् । अथ मतम्, यत्र सिद्धकर्तृकेषु भावेष्वस्मर्यमाणकर्तृकत्वम्; तत्र कर्तुः स्मरणयोग्यता नास्तीति निर्विशेषणस्यानैकान्तिकत्वम् । वैदिकीनां तु रचनानां सति पौरुषेयत्वेऽवश्यं पुरुषस्य कर्तुः तदर्थानुष्ठानसमयेऽनुष्ठातॄणां स्मरणं स्यात् । तेह्यदृष्टफलेषु " ७२ ܕ

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200