________________
सम्मतितर्द्धाख्यप्रकरणस्य
"
तद्विषयत्वेन विद्यते' इति तदप्यसङ्गतम् । यतः किं प्रत्यक्षेण तदनुभवाभावात् तत्र तच्छिन्नमूलत्वम् उत प्रमाणान्तरेण । तत्र यदि प्रत्यक्षेणेति पक्षस्तदा वक्तव्यम् । किं भवत्संबन्धिना प्रत्यक्षेण तत्र तदनुभवाभावः, उत सर्वसंबन्धिना तत्र तद्नुभवाभावः । यदि भवत्संबन्धिनाः तदागमान्तरेऽपि तत्कर्तृग्राहकत्वेन भवत्प्रत्यक्षस्याप्रवृत्तेः तत्कर्तृस्मरणस्य च्छिन्नमूलत्वेनास्मर्यमाणकर्तृकत्वस्य भावादनैकान्तिकः पुनरपि हेतुः । अथ सर्वसंबन्धिना प्रत्यक्षेणाननुभवः । असावसिद्धः । नह्यर्वागृहशा सर्वेषामत्र तद्ग्राहकत्वेन प्रत्यक्षं न प्रवृत्तिमदिति निश्रेतुं शक्यमिति तत्र तत्स्मरणस्य च्छिन्नमूलत्वासिद्धेः अस्मर्यमाणकर्तृकत्वादित्यसिद्धो हेतुः । अथ प्रमाणान्तरेण तदनुभवाभावः । तत्रापि वक्तव्यम् । आगमलक्षणं किं तत्प्रमाणान्तरमभ्युपगम्यते, उत अनुमानखरूपम् । अपरस्य प्रामाण्यासम्भवात् । तत्र यद्यागमलक्षणेन तदननुभव इति पक्षः । स न युक्तः । हिरण्यगर्भः समवर्तताग्र इत्यादेरागमस्य तत्र तत्सद्भावावेदकस्य संभवात् । नच मन्त्रार्थवादानां खरूपार्थे प्रामाण्याभाव इति वक्तुं शक्यम् । यतो मन्त्रार्थ - वादानां स्वाभिधेयप्रतिपादनद्वारेण कार्यार्थोपयोगिता; तेषां तत्राप्रामाण्ये, विध्यर्थाङ्गताऽपि न स्यात् ॥ अथानुमानेन तत्र तदननुभवः । सोऽपि न युक्तः । अनुमानेन तत्र तदनुभवस्य प्रतिपादितत्वात् । अथानुपलम्भपूर्वकमस्मर्यमाणकर्तृकत्वं यद्यस्माभिर्हेतुत्वेनोच्येत तदा पूर्वोक्तप्रकारेणासिद्धत्वानैकान्तिकत्वें स्याताम्; नतु तत्कर्त्रनुपलम्भपूर्वकम स्मर्यमाणकर्तृकत्वं हेतुः, किन्तु तदभावपूर्वकम् । नन्वत्रापि यदि तदभावः प्रमाणान्तरात् सिद्ध:, तदाऽस्यानुमानस्य वैयर्थ्यम् । नच तदभावप्रतिपादकमन्यत् प्रमाणमस्तीत्युक्तम् । अस्मादेवानुमानात् तदभावसिद्धिः, तदाऽतोऽनुमानात् तदभावसिद्धौ, तत्पूर्वकमस्मर्यमाणकर्तृकत्वं सिद्ध्यति तत्सिद्धौ चातोऽनुमानात् तदभावसिद्धिरितीतरेतराश्रयदोषात्, तदवस्थं सविशेषणस्याप्यस्य हेतोरसिद्धत्वम् । अथ मतम्, यत्र सिद्धकर्तृकेषु भावेष्वस्मर्यमाणकर्तृकत्वम्; तत्र कर्तुः स्मरणयोग्यता नास्तीति निर्विशेषणस्यानैकान्तिकत्वम् । वैदिकीनां तु रचनानां सति पौरुषेयत्वेऽवश्यं पुरुषस्य कर्तुः तदर्थानुष्ठानसमयेऽनुष्ठातॄणां स्मरणं स्यात् । तेह्यदृष्टफलेषु
"
७२
ܕ