________________
तत्त्वबोधविधायिनी व्याख्या ।
७३
कर्मस्वेवं निर्विचिकित्साः प्रवर्त्तन्ते यदि तेषां तद्विषयः सत्यत्वनिश्चयः । तस्याप्येवं भावो यदि तदुपदेष्टुः स्मरणम्; यथा पित्रादिप्रामाण्यवशात् स्वयमदृष्टफलेष्वपि कर्मसु तदुपदेशात्प्रवर्त्तन्ते, पित्रादिभिरेतदुपदिष्टं तेनानु. ष्ठीयते । एवं वैदिकेष्वपि कर्मस्वनुष्ठीयमानेषु तत्र स्मरणं स्यात् । नचाभियुक्ता - नामपि वेदार्थानुष्ठातॄणां त्रैवर्णिकानां कर्तुः स्मरणमस्ति । अतः स्मरणयोग्यस्य कर्तुरस्मरणात्, अपौरुषेयो वेदः । एवं चायं हेत्वर्थः । कर्तुः स्मरणयोग्यत्वेऽपि सति, अस्मर्यमाणकर्तृकत्वात्, अपौरुषेयो वेदः । नचैवंविधस्य हेतोः सिद्धकर्तृकेषु भावेषु वृत्तिः, अतो नानैकान्तिकः । यत्र पौरुषेयत्वं तत्र सविशेषणो हेतुर्न संभवतीति विरुद्धत्वमपि न विद्यते । विपक्षे वर्त्तमानः सपक्षेऽसन् विरुद्ध उच्यते । अस्य तु सविशेषणस्य प्रसिद्धपौरुषेये वस्तुन्यप्रवृत्तिः, नापि सपक्ष आकाशादावसत्त्वम्; अतः परिशुद्धान्वयव्यतिरेकहेतुसद्भावात्कर्तृस्मरणयोग्यत्वे सत्यस्मर्यमाणकर्तृकत्वात्, अपौरुषेयो वेदः सिद्ध्यति । तदप्यसंबद्धम् । आगमान्तरेऽपि कर्तुः स्मरणयोग्यत्वे सत्यस्मर्यमाणकर्तृकत्वादित्यस्य हेतोः सद्भावबाधकप्रमाणाभावेन सद्भाव संभवात्, संदिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकत्वस्य तदवस्थत्वात् । किंच । विपक्षवि - रुद्धं हि विशेषणं विपक्षाद् व्यावर्त्तमानं स्वविशेष्यमादाय निवर्त्तत इति युक्तम् । नच पौरुषेयत्वेन सह कर्तुः स्मरणयोग्यत्वस्य सहानवस्थानलक्षणः, परस्परपरिहारस्थितलक्षणो वा विरोधः सिद्धः । सिद्धौ वा तत एव साध्यसिद्धेरस्मर्यमाणकर्तृकत्वादिति विशेष्योपादानं व्यर्थम् । यदप्युक्तम् । तदर्थानुष्ठानसमयेऽवश्यंतया त्रैवर्णिकानामनिश्चिततत्प्रामाण्यानामप्रवृत्तिप्रसङ्गात् सति कर्त्तरि तत्स्मरणं स्यात्, नचाभियुक्तानामपि तदस्तीति तदागमान्तरेऽपि समानं नवेति चिन्त्यतां स्वयमेव ॥ नचायं नियमः, अनुष्ठातारोऽभिप्रेतार्थानुष्ठानसमये तत्कर्त्तारमनुस्मृत्यैव प्रवर्त्तन्ते । नहि पाणिन्यादिप्रणीतव्याकरणप्रतिपादित शाब्दव्यवहारानुष्ठानसमये तदनुष्ठातारोऽवश्यंतया व्याकरणप्रणेतारं पाणिन्यादिकमनुस्मृत्यैव प्रवर्त्तन्त इति दृष्टम् । निश्चिततत्समयानां कर्तृस्मरणव्यतिरेकेणाप्यविलम्बेन भवत्यादिसाधुशब्दोच्चारणदर्शनात् । तत् स्थितमेतत्सविशेषणस्याप्यस्मर्यमाणकर्तृकत्वादिति हेतोर्वादिसंबन्धिनोऽनैकान्तिकत्वम्; प्रतिवादिसंबन्धिनोऽसिद्धत्वम् ; सर्वसंब
१०
"