________________
७४
सम्मतिताख्यप्रकरणस्यन्धिनोऽपि तदेवेति नास्मा तोरपौरुषेयत्यसिद्धिः । अतोऽपौरुषेयत्वप्रसाधकप्रमाणाभावाच्छासनस्यापौरुषेयत्वासम्भवे, यदि सर्वज्ञपणीतत्वं नाभ्युपगम्यते, तदा प्रामाण्यमपि न स्यात् । तथाच धर्मे प्रेरणाप्रमाणमेवेत्ययोगव्यवच्छेदेनावधारणमनुपपन्नम् ॥ अथ प्रेरणाप्रामाण्यसिद्ध्यर्थ सर्वज्ञः प्रेरणाप्रणेताऽभ्युपगम्यते, तदा “चोदनैव च भूतं, भवन्तं, भविष्यन्तं, सूक्ष्म, व्यवहितमेवंजातीयकमर्थमवगमयितुमलम् , नान्यत्किञ्चनेन्द्रियम्" इत्याद्यभिधानमसङ्गतं प्राप्नो. तीत्युभयतः पाशारज्जुर्मीमांसकस्य । तत् स्थितमेतदाचार्येण मीमांसकापेक्षया प्रसङ्गसाधनमेतदुपन्यस्तम् । यदि सिद्धं शासनमभ्युपगम्यते भवद्भिः, तदा जिनानाम् ; तत् जिनप्रणीतमभ्युपगन्तव्यमिति ॥
अथ भवतु प्रेरणाप्रामाण्यवादिनां मीमांसकानामेतत्प्रसङ्गसाधनम् । ये तु तदप्रामाण्यवादिनचार्वाकास्तान् प्रति, स्वप्रतिपत्तौ वा भवतः कि प्रमाणम् । नच प्रमाणाविषयस्य सद्व्यवहारविषयत्वं युक्तम् । तथाहि । ये देशकालस्वभावविप्रकर्षबन्तः सदुपलम्भकप्रमाणविषयभावमनापन्ना भावा न ते प्रेक्षावतां सद्व्यवहारपथावतारिणः; यथा नाकपृष्ठादयस्तथात्वेनाभ्युपगमविषयाः। तथा च समस्तवस्तुविस्तारव्यापिज्ञानसंपत्समन्वितः पुरुष इति सद्व्यवहारप्रतिषेधफलानुपलब्धिः । नचासिद्धो हेतुः । तथाहि । सकलपदार्थसाक्षात्कारिज्ञानाङ्गनालिङ्गितः पुरुषः प्रत्यक्षसमधिगम्यो वा अभ्युपगम्येत, अनुमानादिसंवेद्यो वा। न तावदध्यक्षगोचरः । प्रतिनियतसंनिहितरूपादिविषयनियमितसाक्षात्करणस्वभावा हि चक्षुरादिकरणव्यापारसमासादितात्मलाभा ज्ञप्तयो न परस्थं संवेदनमात्रमपि तावदालम्बितुं क्षमाः, किमङ्ग ! पुनरनाद्यनन्तातीतानागतवर्तमानसूक्ष्मादिस्वभावसकलपदार्थसाक्षात्कारि संवेदनविशेषं, तदध्यासितं वा पुरुषम्। अविषये चक्षुरादिकरणप्रवर्तितस्य ज्ञानस्य प्रवृत्त्यसम्भवात् । सम्भवे वाऽन्यतमकरण. प्रवर्तितस्यापि ज्ञानस्य, रूपादिसकलविषयग्राहकत्वेन संभवात् , शेषेन्द्रियपरिकल्पना व्यर्था । नच सूक्ष्मादिसमस्तपदार्थग्रहणमन्तरेण प्रत्यक्षेण तत्साक्षात्करणप्रवृत्तज्ञानग्रहणम् । ग्राह्याग्रहणे तद्ग्राहकत्वस्यापि तद्गतस्य तेनाग्रहणात् । तदग्रहे च तद्धर्माध्यासितसंवेदनसमन्वितस्यापि न प्रत्यक्षतः प्रतिपत्तिः । नाप्यनुमानतः