________________
तत्त्वबोधविधायिनी व्याख्या ।
1
सकलपदार्थज्ञप्रतिपत्तिः । अनुमानं हि निश्चितखसाध्यधर्मधर्मिसंबन्धाद् हेतोरुदयमासादयत्प्रमाणतामाप्नोति । प्रतिबन्धश्च समस्तपदार्थज्ञसत्त्वेन खसाध्येन हेतोः किं प्रत्यक्षेण गृह्यते, उतानुमानेन । न तावदध्यक्षेण । अध्यक्षस्यात्यक्षज्ञानवत्सत्त्वसाक्षात्करणाक्षमत्वेन तदवगतिनिमित्तहेतुप्रतिबन्धग्रहणेऽप्यक्षमत्वात् । नह्यनवगतसंबन्धिना तद्गतसंबन्धावगमो विधातुं शक्यः ॥ नाप्यनुमानेन तद्गतसंबन्धावगमः । तथाभ्युपगमेऽनवस्थेतरेतराश्रयदोषद्वयानतिवृत्तेः । नचागृहीतप्रतिबन्धाद्धेतोरुपजायमानमनुमानं प्रमाणतामासादयति । तथा धर्मिसंबन्धावगमोऽपि न प्रत्यक्षतः । अनक्षज्ञानवत्प्रत्यक्षेऽक्षप्रभवस्याध्यक्षस्याप्रवृत्तेः । प्रवृत्तौ वाऽध्यक्षेणैव सर्वविदः संवेदनात्, अनुमाननिबन्धन हेतुव्यापारणं व्यर्थम् । नचानुमानतोऽप्यनक्षज्ञानवतोऽवगमः । हेतुपक्षधर्मतावगममन्तरेणानुमानस्यैव धर्मिग्राहकस्याप्रवृत्तेः । नचाप्रतिपन्नपक्षधर्मत्वो हेतुः प्रतिनियत साध्यप्रतिपत्तिहेतुरिति नानुमानतोऽपि सर्वज्ञप्रतिपत्तिः । किंच । सर्वज्ञसत्तायां साध्यायां त्रयीं दोषजातिं हेतुर्नातिवर्त्तते असिद्धविरुद्ध नैकान्तिकलक्षणाम् । तथाहि । सकलज्ञसत्त्वे साध्ये किं भावधर्मों हेतुः, उताभावधर्मः, आहोखिदुभयधर्मः । तत्र यदि भावधर्मः, तदाऽसिद्धः । अथाभावधर्मः, तदा विरुद्धः । भावे साध्ये अभावधर्भस्याभावाव्यभिचारित्वेन विरुद्धत्वात् । अथोभयधर्मः, तदोभयाव्यभिचारित्वेन सत्तासाधनेऽनैकान्तिकत्वमिति न सकलज्ञसत्त्वसाधने कश्चित् सम्यग् हेतुः सम्भवति । अपिच । यद्यनियतः कश्चित् सकलपदार्थज्ञः साध्योऽभिप्रेतः, तदा तत्कृतप्रतिनियतागमाश्रयणं नोपपन्नं भवताम् । अथ प्रतिनियत एक एवान् सर्वज्ञो ऽभ्युपगम्यते, तदा तत्साधने प्रयुक्तस्य हेतोरपर सर्वज्ञस्याभावेन दृष्टान्तानुवृत्त्यसंभवादसाधारणानैकान्तिकत्वादसाधकत्वम् । किंच । यत एव हेतोः प्रतिनियतोऽर्हन् सर्वज्ञः तत एव बुद्धोऽपि स्यादिति कुतः प्रतिनियतसर्वज्ञप्रणीतागमाश्रयणमुपपत्तिमदिति न कश्चित् सर्वज्ञसाधको हेतुः ॥ अथ सर्वे पदार्थाः कस्यचित्प्रत्यक्षाः प्रमेयत्वादग्न्यादिवदिति तत्साधन हेतुसद्भावः । तदसत् । यतोऽत्र किं सकलपदार्थसाक्षात्कार्येकज्ञानप्रत्यक्षत्वं सर्वपदार्थानां साध्यत्वेऽभिप्रेतम्, आहोस्थित् प्रतिनियतविषयानेकज्ञानप्रत्यक्षत्वमिति कल्पनाद्वयम् । यद्याद्यः पक्षः । स न युक्तः । प्रति
७५