________________
सम्मतिताख्यप्रकरणस्यनियतरूपादिविषयग्राहकानेकप्रत्ययप्रत्यक्षत्वेन व्याप्तस्याग्न्यादिदृष्टान्तधर्मिणि, प्रमेयत्वलक्षणस्य हेतोरुपलम्भाडेतुविरुद्धत्वसाध्यविकलदृष्टान्तदोषद्वयाघ्रातत्वात् । अथ द्वितीयः। सोऽप्यसङ्गतः । सिद्धसाद्यतादोषप्रसङ्गात् । तथा प्रमेयत्वमपि हेतुत्वेनोपन्यस्यमानं, किमशेषज्ञेयव्यापिप्रमाणप्रमेयत्वव्यक्तिलक्षणमभ्युपगम्यते, उत अस्मदादिप्रमाणप्रमेयत्वव्यक्तिस्वरूपम्, आहोखित् उभयव्यक्तिसाधारणसामान्यखभावमिति विकल्पाः। तत्र यदि प्रथमः पक्षः । स न युक्तः। विवादाध्यासितपदार्थेषु तथाभूतप्रमाणप्रमेयत्वस्यासिद्धत्वात् । सिद्धत्वे वा साध्यस्यापि हेतुवत् सिद्धत्वात् व्यर्थ हेतूपादानम्; तथाभूतप्रमाणप्रमेयत्वस्य दृष्टान्तेऽग्न्यादिलक्षणेऽसिद्धेः संदिग्धान्वयश्च हेतुः स्यात् । अथास्मदादिप्रमाण. प्रमेयत्वं हेतुः, तदा तथाभूतप्रमाणप्रमेयत्वस्य विवादगोचरेष्वतीन्द्रियेष्वसंभवादसिद्धो हेतुः । सिद्धौ वा ततस्तथाभूतप्रत्यक्षत्वसिद्धिरेव स्यात् ; तत्र चाविवाद इति न हेतूपन्यासः सफलः । अथोभयप्रमेयत्वव्यक्तिसाधारणं प्रमेयत्वसामान्यं हेतुरिति पक्षः । सोऽप्यसङ्गतः। अत्यन्तविलक्षणातीन्द्रियेन्द्रियविषयप्रमाणप्र. मेयत्वव्यक्तिद्वयसाधारणस्य सामान्यस्यासम्भवात् । नहि शाबलेयकर्कव्यक्तिद्वयसाधारणमेकं गोत्वसामान्यमुपलब्धमिति प्रमेयत्वसामान्यलक्षणो हेतुरसिद्ध इति नानुमानादपि सर्वज्ञसिद्धिः ॥ नापि शब्दात् । यतः शब्दोऽपि तत्प्रतिपाद. कोऽभ्युपगम्यमानः किं नित्यः, उतानित्य इति कल्पनाद्वयम्। न तावत् नित्यः । सर्वज्ञबोधकस्य नित्यस्यागमस्याभावात् । भावेऽपि तत्प्रतिपादकत्वेन तस्य प्रामाण्यासम्भवात् ; कार्येऽर्थे तत्प्रामाण्यस्य व्यवस्थापितत्वात् । अथानित्यस्तत्प्रतिपा. दक इति पक्षः । सोऽपि न युक्तः । यतोऽनित्योऽपि किं तत्प्रणीतः स तदवबोधकः, अथ पुरुषान्तरप्रणीत इति विकल्पद्वयम्। तत्र न सर्वज्ञप्रणीतः स तदवबोधक इति पक्षो युक्तः । इतरेतराश्रयदोषप्रसङ्गात् । तथाहि । तत्प्रणीतत्वे तस्य प्रामाण्यम्, ततः तस्य तत्प्रतिपादकत्वमिति व्यक्तमितरेतराश्रयत्वम् । नापि पुरुषान्तरप्रणीतस्तदवबोधकः । तस्योन्मत्तवाक्यवदप्रमाणत्वात् । तन्न शब्दादपि तस्य सिद्धिः ॥ नाप्युपमानात् तत्सिद्धिः। यत उपमानोपमेययोरध्यक्षत्वे सादृश्यालम्बनं तदभ्युपगम्यते । नचोपमानभूतः कश्चित् सर्वज्ञत्वेन प्रत्यक्षतः सिद्धः;