________________
तत्त्वबोधविधायिनी व्याख्या ।
I
येन तत्सादृश्यादन्यस्य सर्वज्ञत्वमुपमानात् साध्यते । सिद्धौ वा प्रत्यक्षत एव सर्वज्ञस्य सिद्धत्वान्नोपमानादपि तत्सिद्धिः ॥ सर्वज्ञसद्भावमन्तरेणानुपपद्यमानस्य प्रमाणषट्क विज्ञातस्यार्थस्य कस्यचिदभावात् नाथपत्तेरपि सर्वज्ञसत्त्वसिद्धिः । नचागमप्रामाण्यलक्षणस्यार्थस्य तमन्तरेणानुपपद्यमानस्य तत्परिकल्पकत्वम् । अतीन्द्रिये स्वर्गाद्यर्थे तत्प्रणीतत्वनिश्चयमन्तरेण तस्य प्रामाण्यानिश्चयात् । अपौरु षेयत्वादपि तत्प्रामाण्यसंभवात् कुतस्तस्य तमन्तरेणानुपपद्यमानता; तन्नार्था - पत्तितोऽपि तत्सिद्धिः ॥ अभावाख्यस्य तु प्रमाणस्याभावसाधकत्वेन व्यापारात् न तत्सद्भावसाधकत्वम् । न चोपमानार्थापत्त्यभावप्रमाणानां भवता प्रामाण्यमभ्युपगम्यते इति न तेभ्यस्तत्सिद्धिः ।
७७
तदुक्तम्:
" सर्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिः ।
दृष्टो न चैकदेशोऽस्ति लिङ्गं वा योऽनुमापयेत् ॥ १॥ न चागमविधिः कश्चिन्नित्यः सर्वज्ञबोधकः ।
नच मन्त्रार्थवादानां तात्पर्यमवकल्पते ॥ २ ॥ नचागमेन सर्वज्ञस्तदीयेऽन्योन्यसंश्रयात् । नन्तरप्रणीतस्य प्रामाण्यं गम्यते कथम् " ॥ ३ ॥ इत्यादि । ततो 'ये देशकाल -' इत्यादिप्रयोगे नासिद्ध हेतुः । सद्व्यवहारनिषेधश्व, अनुपलम्भमात्रनिमित्तः । अनेकधाऽनेन अन्यत्र प्रवर्त्तित इत्यत्रापि तन्निमित्तसद्भावात् प्रवर्त्तयितुं युक्तः । अथ यथाऽस्माकं तत्सद्भावावेदकं प्रमाणं नास्ति, तथा भवतां तदभावावेदकमपि नास्तीति सद्व्यवहारवदभावव्यवहारोऽपि न प्रवर्त्तयितव्यः ॥ तथाहि । सर्वविदोऽभावः किं प्रत्यक्षसमधिगम्यः, प्रमाणान्तरगम्यो वा । तत्र न तावत्प्रत्यक्षसमधिगम्यः । यतः प्रत्यक्षं सर्वज्ञाभावावेदकमभ्युपगम्यमानं, किं सर्वत्र सर्वदा सर्वः सर्वज्ञो न इत्येवं प्रवर्त्तते; उत कचित्कदाचित् कश्चित् सर्वज्ञो नास्तीत्येवमिति कल्पनाद्वयम् । तत्र यदि सर्वत्र सर्वदा सर्वः सर्वज्ञो नेति प्रत्यक्षस्य प्रवृत्तिः, तर्हि न सर्वज्ञाभावः । तज्ज्ञानवत एव सर्वज्ञत्वात् । नहि सकलदेशकालव्यवस्थितपुरुषपरिषत्साक्षात्करणमन्तरेण तदाधारम सर्वज्ञत्वमवगन्तुं शक्यम् ।