________________
७८
सम्मतितकाख्यप्रकरणस्यतत्साक्षात्करणे च कथं न तज्ज्ञानवतः सर्वज्ञत्वमिति नाद्यः पक्षः ॥ द्वितीयेऽपि पक्षे न सर्वथा सर्वज्ञाभावसिद्धिरिति न प्रत्यक्षात सर्वज्ञाभावसिद्धिः । अथ न प्रवर्त्तमानं प्रत्यक्षं सर्वज्ञाभावसाधकं, किंतु निवर्तमानम् । ननु यदि निखिलदेशकालाधारसकलपुरुषपरिषदाश्रितानन्तपदार्थसंविद्व्यापकं, कारणं वा तत् स्यात्, तदा तन्निवर्तमानं तथाभूतं सर्वज्ञत्वं व्यावर्त्तयेत्, नान्यथा । तथाभूतनिवृत्तौ तन्निवृत्तेरसिद्धेः । तथाऽभ्युपगमे वा स एव सर्वज्ञ इति न तेन तन्निषेधः । किंच । प्रत्यक्षनिवृत्तिर्यदि प्रत्यक्षमेव, तदा स एव दोषः। अथ प्रत्यक्षादन्या, तदाऽसौ प्रमाणमप्रमाणं वा।अप्रमाणत्वे, नातः सर्वज्ञाभावसिद्धिः । प्रमाणवे नानुमानत्वम्; सर्वात्मसंबन्धिन्याः तन्निवृत्तेर्यथासङ्ख्यमसिद्धानैकान्तिकत्वदोष. द्वयसद्भावात् । नच तुच्छा तन्निवृत्तिः तदभावज्ञापिका । तुच्छायाः केनचित् सह प्रतिबन्धाभावेन सर्वसामर्थ्यविरहेण च ज्ञापकत्वासम्भवात् । तन्न प्रवर्त्तमानं, निवर्तमानं वा प्रत्यक्षं तदभावं साधयति ॥ प्रमाणान्तरगम्यत्वेऽपि तदभावो न तावदनुमानगम्यः । तदभावसाधकानुमानाभावात् । अथ विवादाध्यासितः पुरुषः सर्वज्ञो न भवति, वक्तृत्वात् , रथ्यापुरुषवदित्यनुमानं तदभावसाधकम् । नन्वत्र किं प्रमाणान्तरसंवादिनोऽर्थस्य वक्तृत्वं हेतुः, उत तद्विपरीतस्य, आहोस्वित् वक्तृत्वमात्रमिति वक्तव्यम् । यदि प्रमाणान्तरसंवाद्यर्थस्य वक्तृत्वादिति हेतुः, तदा विरुद्धो हेतुः । तथाभूतवक्तृत्वस्य सर्वज्ञ एव भावात् । अथ प्रमाणान्तरवि. संवादिनोऽर्थस्य वक्तृत्वादिति हेतुः, तदा सिद्धसाधनम् । तथाभूतस्य वक्तुरसर्वज्ञत्वेनास्माभिरप्यभ्युपगमात् । अथ वक्तृत्वमात्रं हेतुः । न । तस्य साध्यविपर्ययेण सर्वज्ञत्वेनानुपलब्धेन सहानवस्थानलक्षणस्य तदव्यवच्छेदस्वभावेन च परस्परपरिहारस्वरूपस्य च विरोधस्याभावात् न ततो व्यावृत्तिसिद्धिरिति न वसाध्यनियतत्वम् ; तदभावान्न वसाध्यसाधकत्वम् । अथ सर्वज्ञो वक्ता नोपलब्ध इति ततो व्यावृत्तिसिद्धिः । न । सर्वसंबन्धिनोऽनुपलम्भस्यासंभवात् । सर्वज्ञ एव वक्तृत्वमात्मन्युपलप्स्यते, सर्वज्ञान्तरेण वा तत्तत्र संवेदिष्यत इति न सम्भवः सर्वसंबन्धिनोऽनुपलम्भस्य । अथ सर्वज्ञस्य कस्यचिदभावात् सर्वसंबन्धिनोऽनुपलम्भस्य संभवः । ननु सर्वज्ञाभावः कुतः सिद्धः । अन्यतः