________________
तत्त्वबोधविधायिनी व्याख्या ।
प्रमाणात् चेत् । तत एव तदभावसिद्धेरस्य वैयर्थ्यम् । अत एवानुमानादिति न वक्तव्यम् । इतरेतराश्रयदोषप्रसङ्गात् । सिद्धेऽतोऽनुमानात् सर्वज्ञाभावे, सर्वसंबन्ध्यनुपलम्भसंभवसामर्थ्यात् हेतोर्विपक्षतो व्यावृत्तिः स्यात् तस्य च विपक्षाद्व्यावृत्तस्य तत्साधकत्वमिति व्यक्तमितरेतराश्रयत्वम् । भवतु वा सर्वसंबन्ध्यनुपलम्भसंभवः; तथापि सकलपुरुष चेतोवृत्तिविशेषाणामसर्वज्ञेन ज्ञातुमशक्तेरसिद्धः सर्वसंबन्ध्यनुपलम्भ इति न ततो विपक्षव्यावृत्तिनिश्वयो वक्तृत्वस्येति कुतः संदिग्धविपक्षव्यावृत्तिकाद् हेतेोस्तदभावसिद्धिः । नापि स्वसंबन्धिनोऽनुपलम्भात् तद्व्यतिरेकनिश्चयः । तस्य स्वपितृव्यपदेशहेतुनाऽप्यनैकान्तिकत्वात् । नचैवंभूतादपि हेतोः साध्यसिद्धिः तथाऽभ्युपगमे न कश्चित्सर्वज्ञाभावमवबुद्ध्यते वक्तृत्वातू, रथ्यापुरुषवादति तदभावावगमाभावस्यापि सिद्धिः स्यात् । अथान्यत्रापि हेतावयं दोषः समान इति सर्वानुमानोच्छेदः । तदयुक्तम् । अन्यत्र विपक्षव्यावृत्तिनिमित्तस्यानुपलम्भव्यतिरेकेण बाधकप्रमाणस्य सद्भावात् । नचात्रापि तस्य सद्भाव इति शक्यं वक्तुम् । तदभावस्य हेतुलक्षणप्रस्तावे वक्ष्यमाणत्वात् । किंच । सर्वज्ञप्रतिपादकप्रमाणाभावे तस्यासिद्धत्वात् तदभावसाधनायोपन्यस्यमानः सर्वोऽपि हेतुराश्रयासिद्ध इति न तस्मादभावसिद्धिः । अथ तवाहकत्वेन प्रमाणं प्रवर्त्तत इत्याश्रयासिद्धत्वाभावः, तर्हि तत्साधकप्रमाणबाधितत्वात् पक्षस्य न तत्साधनाय हेतुप्रयोगसाफल्यमिति नानुमानावसेयः सर्वज्ञाभावः । अपौरुषेयत्वस्य प्राक्तनन्यायेनासिद्धत्वात्, सर्वज्ञप्रणीतत्वानभ्युपगमे शब्दस्य पुरुषदोषसंक्रान्त्याऽप्रामाण्यात् न ततोऽपि तदभावसिद्धिः। नच तदभावाभिधायकं किञ्चिदवाक्यं श्रूयते; केवलं तद्भावावेदक वेदवचनोपलब्धिरविगानेन समस्ति -
७९
“अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्ण: ।
स वेत्ति विश्वं नहि तस्य वेत्ता तमाहुरग्यं पुरुषं महान्तम्” ॥ १ ॥ तथा हिरण्यगर्भ प्रकृत्य सर्वज्ञ इत्यादि । नच स्वरूपेऽर्थे तस्याप्रामाण्यम्; तत्र तत्प्रामाण्यस्य प्रतिपादयिष्यमाणत्वात्; तन्न शब्दादपि तदभावसिद्धिः ॥