________________
. सम्मतिताख्यप्रकरणस्यनाप्युपमानात्तदभावावगमः । यत उपमानमुपमानोपमेययोरध्यक्षत्वे सादृश्यालम्बनमुदेति; अन्यथा
" तस्माद्यत् स्मयते तत्स्यात् सादृश्येन विशेषितम् ।
प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम्" ॥१॥ इत्यभिधानात् प्रत्यक्षेणोपमानोपमेययोरग्रहणे उपमेये स्मरणासंभवात् ; कथं स्मर्यमाणपदार्थविशिष्टं सादृश्यं, सादृश्यविशिष्टं वा स्मर्यमाणं वस्तु उपमानविषयः स्यात् । तस्मादिदानींतनोपमानभूताशेषपुरुषप्रत्यक्षत्वम्, उपमेयाशेषान्यकालमनुष्यवर्गसाक्षात्करणं चावश्यमभ्युपगमनीयम् । तदभ्युपगमे च स एव सर्वज्ञ इति कथं उपमानात् तदभावावगमो युक्तः ।
अतो यदुक्तम्:
"यजातीयैः प्रमाणैस्तु यज्जातीयार्थदर्शनम् ।
दृष्टं संप्रति लोकस्य तथा कालान्तरेऽप्यभूत्” ॥ १ ॥ इति । तन्निरस्तम् । उपमानस्योक्तन्यायेनात्र वस्तुन्यप्रवृत्तेः॥ नाप्यर्थापत्तितस्तद्भावावगमः । तस्याः प्रमाणत्वेऽनुमानेऽन्तर्भूतत्वात् । तथाहि । दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यत इत्यदृष्टार्थकल्पनाऽर्थापत्तिः। नचासावर्थोऽन्यथानुपपद्यमानत्वानवगमे अदृष्टार्थपरिकल्पनानिमित्तम् । अन्यथा स येन विनोपपद्यमानत्वेन निश्चितस्तमपि परिकल्पयेत्; येन विना नोपपद्यते तमपि वा न कल्पयेत् । अनवगतस्यान्यथाऽनुपपन्नत्वेनार्थापत्त्युत्थापकस्यार्थस्यान्यथाऽनुपपद्यमानत्वे सत्यप्यदृष्टार्थपरिकल्पकत्वासंभवात् । संभवे वा लिङ्गस्याप्यनिश्चितनियमस्य परोक्षा
र्थानुमापकत्वं स्यादिति; तदपि नार्थापत्त्युत्थापकादद्भिद्येत । स चान्यथाऽनुपपद्यमानत्वावगमः, तस्यार्थस्य न भूयो दर्शननिमित्तः सपक्षे । अन्यथा लोहलेख्यं वज्रं पार्थिवत्वात् , काष्ठवदित्यत्रापि साध्यसिद्धिः स्यात् । नापि विपक्षे तस्यानुपलम्भनिमित्तोऽसौ । व्यतिरेकनिश्वायकत्वेनानुपलम्भस्य पूर्वमेव निषिद्धत्वात् ; किन्तु विपर्यये तद्बाधकप्रमाणनिमित्तः । तच्च बाधकं प्रमाणमर्थापत्तिप्रवृत्तेः प्रागेवानुपपद्यमानस्यार्थस्य तत्र प्रवृत्तिमदभ्युपगन्तव्यम् । अन्यथाऽर्था