________________
तत्त्वबोधविधायिनी व्याख्या। पत्त्या तस्यान्यथाऽनुपपद्यमानलावगमेऽभ्युपगम्यमाने यावत्तस्थान्यथाऽनुपपद्यमामलं नावगतं, न तावदर्थापत्तिप्रवृत्तिः; यावच्च न तत्प्रवृत्तिः, न तावदर्थापत्त्यु. स्थापकस्यार्थस्यान्यथाऽनुपपद्यमानवावगम इतीतरेतराश्रयत्वान्नार्थापत्तिप्रवृत्तिः ।
अतएव यदुक्तम् :"अविनाभाविता चात्र तदैव परिगृह्यते । न प्रागवगतेत्येवं सत्यप्येषा न कारणम् ॥ १ ॥ तेन संबन्धवेलायां संबन्ध्यन्यतरो ध्रुवम् ।
अर्थापत्त्यैव मन्तव्यः पश्चादस्त्वनुमानता" ॥ २ ॥ इत्यादि । तन्निरस्तम् । एवमभ्युपगमेऽर्थापत्तेरनुत्थानस्य प्रतिपादितत्वात् । स च तस्य पूर्वमन्यथाऽनुपपद्यमानत्वावगमः किं दृष्टान्तधर्मिप्रवृत्तप्रमाणसंपाद्यः, आहोखित् खसाध्यमिप्रवृत्तप्रमाणसंपाद्य इति । तत्र यद्याद्यः पक्षः । तदाऽत्रापि वक्तव्यम्। किं तत् दृष्टान्तधर्मिणि प्रवृत्तं प्रमाणं, साध्यधर्मिण्यपि साध्या. न्यथाऽनुपपन्नत्वं तस्यार्थस्य निश्वाययति, आहोस्वित् दृष्टान्तधर्मिण्येव । तत्र यद्यायः पक्षः । तदाऽर्थापत्त्युत्थापकस्यार्थस्य, लिङ्गस्य वा स्वसाध्यप्रतिपादनव्यापार प्रति न कश्चिद्विशेषः । अथ द्वितीयः । स न युक्तः। नहि दृष्टान्तधमिणि निश्चितस्वसाध्यान्यथाऽनुपपद्यमानत्वोऽर्थोऽन्यत्र साध्यधर्मिणि तथा भवति। नच तथात्वेनानिश्चितः स साध्यधर्मिणि स्वसाध्यं परिकल्पयतीति युक्तम् । अतिप्रसङ्गात् । अथ लिङ्गस्य दृष्टान्तर्मिप्रवृत्तप्रमाणत्ववशात्सर्वोपसंहारेण स्वसाध्यनियतत्वनिश्चयः, अर्थापत्त्युत्थापकस्य त्वर्थस्य स्वसाध्यधर्मिण्येव प्रवृत्तास्प्रमाणात्सर्वोपसंहारेणादृष्टार्थान्यथाऽनुपपद्यमानत्वनिश्चय इति लिङ्गार्थापत्त्युत्था. पकयोर्भेदः। नास्मा दादर्थापत्तेरनुमानं भेदमासादयति । अनुमानेऽपि स्वसाध्यधर्मिण्येव विपर्ययावेतुव्यावर्तकत्वेन प्रवृत्तं प्रमाणं सर्वोपसंहारेण स्वसाध्यनियतत्वनिश्वायकमभ्युपगन्तव्यम् । अन्यथा सर्वमनेकान्तात्मकं सत्त्वादित्यस्य हेतोः पक्षीकृतवस्तुव्यतिरेकेण दृष्टान्तधर्मिणोऽभावात्कथं तत्र प्रवर्तमानं बाधकं प्रमाणमनेकान्तात्मकत्वनियतत्वमवगमयेत् सत्त्वस्य । नच साध्यधर्मिणि दृष्टाम्तधर्मिणि च प्रवर्त्तमानेन प्रमाणेनार्थापत्त्युत्थापकस्यार्थस्य, लिङ्गस्य च यथा