________________
सम्मतितकाख्यप्रकरणस्यक्रमं प्रतिबन्धो गृह्यत इत्येतावन्मात्रेणार्थापत्त्यनुमानयोर्भेदोऽभ्युपगन्तुं युक्तः । अन्यथा पक्षधर्मत्वसहितहेतुसमुत्थादनुमानात्तद्रहितहेतुसमुत्थमनुमानं प्रमाणान्तरं स्यादिति प्रमाणषट्रवादो विशीर्येत । नियमवतो लिङ्गात्परोक्षार्थप्रतिपत्तेरविशेषात् न ततस्तद्भिन्नमित्यभ्युपगमे, स्वसाध्याविनाभूतादर्थादर्थप्रतिपत्तेरवि. शेषादनुमानादर्थापत्तेः कथं नाभेदः । तदेवं प्रमाणत्वेऽर्थापत्तेरनुमानेऽन्तर्भावात्, अनुमानस्य च सर्वज्ञाभावप्रतिपादकस्य निषेधात्तन्निषेधे चार्थापत्तेरपि तदभावग्राहकत्वेन निषेधान्नार्थापत्तिसमधिगम्योऽपि सर्वज्ञाभावः ॥ अभावाख्यं तु प्रमाणमप्रमाणत्वादेव न तदभावसाधकम् । प्रमाणत्वेऽपि किमात्मनोऽपरिणामलक्षणं तत्, आहोस्विदन्यवस्तुविज्ञानलक्षणमिति। तत्र यद्यात्मनोऽपरिणामलक्षण तदभावसाधकमिति पक्षः। स न युक्तः । तस्य सत्त्वेनाभ्युपगते परचेतोवृत्तिविशेषेऽपि सद्भावेनानैकान्तिकत्वात् । अथान्यविज्ञानलक्षणमिति पक्षः।सोऽप्यसंबद्धः। यतः सर्वज्ञत्वादन्यद्यदि किञ्चिज्ज्ञत्वं तद्विषयज्ञानं तदन्यज्ञानं, तदाऽत्रापि वक्तव्यम्; किं सकलदेशकालव्यवस्थितपुरुषाधारं किश्चिज्ज्ञत्वं अभ्युपगम्यते, आहोस्वित् कतिपयपुरुषव्यक्तिसमाश्रितमिति। तत्र यदि समस्तदेशकालाश्रितपुरुषाधारं किञ्चिज्ज्ञवं तद्विषयं ज्ञानं तदन्यज्ञानं तत्सर्वज्ञाभावप्रसाधकम् । तदयुक्तम् । सकलदेशकालव्यवस्थितपुरुषपरिषत्साक्षात्करणव्यतिरेकेण तदाधारस्य किञ्चिज्ञवस्य विषयीकर्तुमशक्तेर्न तद्विषयस्य तदन्यज्ञानस्य सर्वज्ञाभावावगमनिमितलं युक्तम्। सर्वदेशकालव्यवस्थिताशेषपुरुषसाक्षात्करणे च स एव सर्वदर्शीति न तदभावाभ्युपगमः श्रेयान् । अथ कतिपयपुरुषव्यक्तिव्यवस्थितं किञ्चिज्ज्ञलं तदन्यत् तद्विषयं ज्ञानं तदन्यज्ञानं सर्वज्ञाभावावेदकम् । तदप्ययुक्तम्।तज्ज्ञानात तदभावावगमे कतिपयपुरुषव्यक्तिव्यवस्थितस्यैव सर्वज्ञवस्याभावः सिद्ध्येत, न सर्वत्र सर्वदा सर्वपुरुषेषु । तथाच सिद्धसाधनम् । अस्माभिरपि कुत्रचिद्रथ्यापुरुषादेरसर्वज्ञवेनाभ्युपगमात् । अथ सर्वज्ञवादन्यस्तदभावस्तद्विषयं ज्ञानं तदन्यज्ञानम् तदाऽत्रापि किं सर्वदा सर्वत्र सर्वः सर्वज्ञो न इत्येवं तत्प्रवर्त्तते, उत कुत्रचित्कदाचित्कश्चित् सर्वज्ञो न इत्येवम् । तत्र नाद्यः पक्षः। सकलदेशकालपुरुषासाक्षाकरणे तदाधारस्य तदभावस्यावगन्तुमशक्यलात्, प्रदेशाप्रत्यक्षीकरणे तदाधारस्य