________________
तत्त्वबोधविधायिनी व्याख्या। घटाभावस्येव, तत्साक्षात्करणे च तदेव सर्वज्ञत्वमिति न तदभावसिद्धिः । अथ द्वितीयः पक्षः । तदा न सर्वत्र सर्वदा सर्वज्ञाभावसिद्धिरिति तदेव सिद्ध. साधनम् । प्रमाणपञ्चकनिवृत्तेस्तदभावज्ञानमित्यादि सर्व प्रतिविहितमिति नाभावप्रमाणादपि तदभावावगमोऽभ्युपगन्तुं युक्त इत्यादि यत् ; तदप्यविदितपराभिप्रायस्य सर्वज्ञवादिनोऽभिधानम् । यतो नास्माकमतीन्द्रियसर्वज्ञादिपदार्थबाधकं प्रत्यक्षादिप्रमाणं खतन्त्रं प्रवर्तत इत्यभ्युपगमः । अतीन्द्रियेषु खतन्त्रस्य प्रत्यक्षादिप्रमाणस्य भवदभिहितप्राक्तनदोषदुष्टत्वेन प्रवृत्त्यसंभवात् । किन्तु प्रसङ्गसाधनाभिप्रायेण सर्वमेव सर्वज्ञप्रतिक्षेपप्रतिपादकं युक्तिजालमभिहितं यथार्थमभिधानमुद्वहद्भिर्मीमांसकैः। अत एव तदभिप्रायप्रकाशनपरं भगवतो जैमिनेः सूत्रं 'सत् सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम्' इति । यतो नानेनापि सूत्रेण स्वातन्त्र्येण प्रत्यक्षलक्षणमभ्यधायि भगवता; किन्तु लोकप्रसिद्धलक्षणलक्षितप्रत्यक्षानुवादेन तस्य धर्म प्रत्यनिमित्तत्वं विधीयते । नचैतदत्रापि वक्तव्यम्; कतरस्य प्रत्यक्षस्य धर्म प्रत्यनिमित्तत्वं विधीयते; अस्मदादिप्रत्यक्षस्य, सर्वज्ञप्रत्यक्षस्य वा । अस्मदादिप्रत्यक्षस्य तदनिमित्तत्वप्रतिपादने सिद्धसाधनम् । सर्वज्ञप्रत्यक्षस्य भवन्मतेनाप्रसिद्धत्वाच्छशविषाणस्येव कथं तं प्रत्यनिमित्तताविधिः। अथापि स्यात् परेण तस्याभ्युपगतत्वात् , तं प्रत्यनिमित्तत्वं तत्प्रसिधैवोच्यते । तदयुक्तम्। परीक्षापूर्वकत्वेनाभ्युपगमस्य स्थितत्वात् । तत्पूर्वकश्चेत् परस्याभ्युपगमः, तदा भवतोऽपि तस्य तद्भावः, परीक्षायाःप्रमाणरूपत्वात् । प्रमाणसिद्धं च न परस्यैव सिद्धम् । प्रमाणसिद्धस्य सर्वैरेवाभ्युपगमनीयत्वात् । अथ प्रमाणव्यतिरेकेण परेण सर्वज्ञप्रत्यक्षमभ्युपगतम्, तदाऽसौ प्रमाणाभावादेव नाभ्यु. पगमो युक्तः । नच प्रमाणाभ्युपगतस्यास्मदादिप्रत्यक्षविलक्षणस्य सर्ववित्प्रत्यक्षस्य तं प्रत्यनिमित्तत्वं विधातुं युक्तम् , यतोऽस्मदादिप्रत्यक्षविलक्षणत्वं सर्ववित्प्रत्यक्षस्य धर्मादिग्राहकत्वेनैव; तच्चत्प्रमाणतोऽभ्युपगतं, कथं तस्य तं प्रत्यनिमित्तत्वमुपपद्यते। तद्ग्राहकप्रमाणबाधितत्वात्। किञ्चायं परस्परविरुद्धोऽपि वाक्यार्थः स्यात् ; प्रमाणतो धर्मादिग्राहकं सर्ववित्प्रत्यक्षं यत्प्रसिद्धं तद् धर्मादिग्राहकं न भवतीति । यतो न प्रसङ्गसाधने आश्रयासिद्धत्वादिदूषणं