________________
सम्मतितर्द्धाख्यप्रकरणस्य
4°
1
,
क्रमते । नहि प्रमाणमूलपराभ्युपगमपूर्वकमेव प्रसङ्गसाधनं प्रवर्त्तते, किं तर्हि यद्यर्थाभ्युपगमदर्शनपूर्वकम् । अत एव प्रसङ्गसाधनस्य विपर्ययफलत्वम् । विपर्ययस्य च अतीन्द्रिय पदार्थविषयप्रत्यक्षनिषेधफलत्वम्, तन्निषेधे च किं प्रत्यक्षस्य धर्मिणो निषेधः अथ तद्धर्मस्य प्रत्यक्षत्वस्येति । पूर्वस्मिन् पक्षे हेतूनामाश्रयासिद्धतेति प्रतिपादितम् ; उत्तरत्र प्रत्यक्षत्वनिषेधे प्रमाणान्तरत्वप्रसक्तिः, विशेषप्रतिषेधस्य शेषाभ्यनुज्ञानलक्षणत्वात्; इति न प्रेर्यम् । यतो विशेषनिषेधे तस्य विशेषरूपत्वेन सर्वस्यैव प्रतिषेधः । नच धर्म्यसिद्धत्वादिदोषः । यद्यर्थस्याभ्युपगतत्वात् । कथं 1 पुनरत्र प्रसङ्गो, विपर्ययो वा क्रियते इति चेत् । तदुच्यते । सार्वज्ञं प्रत्यक्षं यद्यभ्युपगम्यते तदा तत् धर्मग्राहकं न भवति; विद्यमानोपलम्भनत्वात् । नचासिद्धो हेतुः । तथाहि । विद्यमानोपलम्भनमतीन्द्रियार्थजप्रत्यक्षं, सत्संप्रयोगजलात् । अस्याप्यसिद्धतोद्भावने एवं वक्तव्यम् । विवादगोचरं प्रत्यक्षं सत्संप्रयोगजं, प्रत्यक्षत्वात् । तच्छ ब्दवाच्यत्वाद्वाऽस्मदादिप्रत्यक्षं सर्वत्र दृष्टान्त इति प्रसङ्गः । विपर्ययस्त्वेवम् ; तद्धर्मग्राहकं चेत्, तर्हि अविद्यमानोपलम्भनम् ; अविद्यमानत्वात् धर्मस्य । अविद्यमानोपलम्भनत्वे न सत्संप्रयोगजम्। असत्संप्रयोगजत्वे न प्रत्यक्षं; नापि तच्छब्दवाच्यम् । प्रसङ्गसाधनाभिप्रायेणैव यद्यर्थोपक्षेपेण वार्त्तिककृताऽप्यभिहितम् :“यदि षड्भिः प्रमाणैः स्यात् सर्वज्ञः केन वार्यते । एकेन तु प्रमाणेन सर्वज्ञो येन कल्प्यते । नूनं स चक्षुषा सर्वान् रसादीन् प्रतिपद्यते ॥ १ ॥ यज्जातीयैः प्रमाणैस्तु यज्जातीयार्थदर्शनम् । दृष्टं संप्रति लोकस्य तथा कालान्तरेऽप्यभूत् " ॥ २ ॥ पुनरप्युक्तम्
“येऽपि सातिशया दृष्टाः प्रज्ञामेधादिभिर्नराः । स्तोकस्तोकान्तरत्वेन नत्वतीन्द्रियदर्शनात् ॥ ३॥ यत्राप्यतिशयो दृष्टः स खार्थान तिलङ्घनात् ।
दूरसूक्ष्मादिदृष्टौ स्यान्न रूपे श्रोत्रवृत्तिता” ॥ ४ ॥ इत्यादि ।
तेनात्रापि खतन्त्रानुमानाभिप्रायेणाश्रयासिद्धत्वादिदूषणम्, उपमानोपन्यास