________________
तत्त्ववोधविधायिनी व्याख्या। बुधा वा शेषोपमानोपमेयभूतपुरुषपरिषत्साक्षात्करणे उपमानं प्रवर्त्तते इत्यादि दूषणाभिधानं च, सर्वज्ञवादिनःस्वजात्याविष्करणमात्रकमेवाअतोऽतीन्द्रियसर्वविदो न प्रत्यक्ष प्रवृत्तिहारेण निवृत्तिहारेण वा भावसाधनमित्यादि सर्वमभ्युपगमवादा. निरस्तम् । यच्चानुमानेन सर्वज्ञाभावसाधने दूषणमभिहितम् । किं प्रमाणान्तरसंवाद्यर्थस्य वक्तृत्वादित्यादि; तडूमादग्न्यनुमानेऽपि समानम् । तथाहि । तत्रापि वक्तुं शक्यते; किं साध्यमिसंबन्धी धूमो हेतुत्वेनोपन्यस्तः, उत दृष्टान्तधर्मिसंबन्धी । तत्र यदि साध्यधर्मिसंबन्धी हेतुः, तदा तस्य दृष्टान्तेऽसंभवादन्वयदोषः। अथ दृष्टान्तधर्मिसंबन्धी सोऽसिद्धः। दृष्टान्तधर्मिधर्मस्य साध्यधर्मिण्यसंभवात् । अथोभयसाधारण धूमत्वसामान्यं हेतुः, तदा तस्य विपक्षेऽननौ विरोधासिद्धेः, सन्दिग्धविपक्षव्यावृत्तिकत्वेन स्वसाध्यागमकत्वम् । अथ विपक्षेऽनग्नौ धूमस्यानुपलम्भाद्विरोधसिद्धेः न सन्दिग्धविपक्षव्यावृत्तिकलम् । नन्वत्रापिवक्तुं शक्यम्। सर्वसंबन्धिनोऽनुपलम्भस्यासम्भवादनमौ देशान्तरे कालान्तरे वा केनचित धूमस्योपलम्भात्, तदुपलब्धिमतः कस्यचिदभावात् सर्वसंबन्धिनोऽनुपलम्भस्य संभव इति चेत् ; केन पुनः प्रमाणेनानग्नौ धूमसत्त्वग्राहकपुरुषाभावः प्रतिपन्नः । यद्यन्यतः प्रमाणात; तत एवानग्गेधूमस्य व्यावृत्तिसिद्धेयर्थ सर्वसंबन्ध्यनुपलम्भलक्षणस्य विपक्षे धूमविरोधसाधकस्य प्रमाणस्याभिधानम्। अथ तथाभूतानुपलम्भात् तदभावावगमः । ननु तथाभूतपुरुषाभावे तदनुपलम्भसंभव. स्तत्संभवाच्च तथाभूतपुरुषाभावसिद्धिरितीतरेतराश्रयत्वात् न सर्वसंबन्धिनोऽनुपलम्भस्य संभवः। संभवेऽपि तस्यासिद्धेर्न विपर्यये विरोधसाधकत्वम् । अथात्मसंबन्धिनोऽनुपलम्भस्य धूमत्वलक्षणहेतोर्विपक्षात् न व्यावृत्तिसाधकत्वम्। तस्य परचेतोवृत्तिविशेषैरनैकान्तिकत्वात् । अथानुपलम्भव्यतिरिक्तं धूमलक्षणस्य हेतोर्विपर्यये बाधकं प्रमाणमस्ति, नतु वक्तृत्वलक्षणस्य । किं पुनस्तदिति वक्तव्यम्। अग्निधूमयोः कार्यकारणभावलक्षणप्रतिबन्धग्राहकमिति चेत्; कः पुनरसौ कार्यकारणभावः, किंवा तद्राहकं प्रमाणम् । अग्निभाव एव धूमस्य भावस्तदभावे चाभाव एवासौ; तबाहकं च प्रमाणे प्रत्यक्षानुपलम्भस्वभावम् । ननु किञ्चिज्ज्ञवस्य तद्व्यापकस्य वा रागादिमत्त्वस्य भाव एव वक्तृत्वस्य भावः खात्मन्येव दृष्टस्तदभावे