________________
प्रकरणस्य
सम्मतिताख्यप्रकरणस्यवाऽभाव एवोपलादावविगानेनानुपलम्भतो ज्ञात इति कथं न विपर्यये सर्वज्ञत्वे, वीतरागत्वे वा वक्तृत्वलक्षणस्य हेतोबाधकं, कार्यकारणभावलक्षणप्रतिबन्धग्राहकं प्रत्यक्षानुपलम्भाख्यं प्रमाणं, दर्शनादर्शनशब्दवाच्यं युक्तम्। नच दर्शनादर्शनशब्दवाच्यस्यास्मदभ्युपगतप्रमाणस्य प्रत्यक्षानुपलम्भशब्दवाच्यस्य वा भवदभिप्रेतस्य कश्चिद्विशेषः प्रकृतहेतुसाध्यप्रतिबन्धसाधने उपलभ्यते । अथ किञ्चिज्ज्ञत्वरागादिमत्त्वसद्भावेऽपि स्वात्मनि न तहेतुकं वक्तृत्वं प्रतिपन्नं, किन्तु वक्तुकामताहेतुकम् ; रागादिसद्भावेऽपि वक्तुकामताऽभावेऽभावाद्वचनस्य । नन्वेवं व्यभिचारे,विवक्षाऽपि न वचने निमित्तं स्यात्,तत्राप्यन्यविवक्षायामन्यशब्ददर्शनाता अन्यथा गोत्रस्खलनादेरभावप्रसङ्गात्। अथार्थविवक्षाव्यभिचारेऽपि शब्दविवक्षायामव्यभिचारः।न। स्वप्नावस्थायामन्यगतचित्तस्य वा शब्दविवक्षाभावेऽपि वक्तृत्वसंवेदनात्।न चव्यवहिता विवक्षा तस्य निमित्तमिति परिहारः। एवमभ्युपगमे, प्रतिनियतकार्यकारणभावाभावप्रसङ्गात् सर्वस्य तत्प्राप्तः,तन्न वक्तुकामतानिमित्तमप्येकान्ततो वचनं सिद्धम्।व्यतिरेकासिद्धेः । अन्वयस्तु किञ्चिज्ज्ञलेन, रागादिमत्त्वेन वा वचनस्य सिद्धो न वक्तुकामतया।अथ किञ्चिज्ज्ञत्वाद्यभावे, सर्वत्र वक्तृत्वं न भवतीत्यत्र प्रमाणाभावान्नासर्वज्ञवक्तृत्वयोः कार्यकारणभावलक्षणः प्रतिबन्धः सिद्धयति। तर्हि वह्नयभावे धूमः सर्वत्र न भवतीत्यत्रापि प्रमाणाभावस्तुल्य इति न प्रतिबन्धग्रहः ।अथाग्न्यभावेऽपि यदि धूमः स्याचदाऽसौ तहेतुक एव न भवेदिति सकृदप्यहेतोरग्नेस्तस्य न भावः स्यात् । दृश्यते च महानसादावग्मित इति नानग्गेधूमसद्भाव इति प्रतिबन्धसिद्धिः। ननु यथेन्धनादेरेकदा समुद्भूतोऽपि वह्निरन्यदाऽरणितो मण्यादेर्वा भवन्नुपलभ्यते, धूमो वा वह्नित उपजायमानोऽपि गोपालघटिकादौ पावकोशूतधूमादप्युपजायते इत्यवगमस्तदा कदाचिदग्न्यभावेऽपि भविष्यतीति कुतः प्रतिबन्धसिद्धिः। अथ यादृशो वहिरिन्धनादिसामग्रीत उपजायमानो दृष्टो न तादृशोऽरणितो मण्यादेर्वा, धूमोऽपि यादृशोऽग्नित उपजायते न तादृश एव गोपालघटिकादावग्निप्रभवधूमात्। अन्यादृशात्तादृशभावे तादृशत्वमहेतुकमिति न तस्य कचिदपि प्रतिनियमः स्यात् । अहेतोदेशकालखंभावनियमायोगादिति नाग्निजन्यधूमस्य तत्सहशस्य वाऽनर्भावः । भावे वा तादृशधूमजनकस्यामिखभावतैवेति न व्यभिचारः।