________________
तत्वबोधविधायिनी व्याख्या।
तदुक्तम्"अग्निस्वभावः शक्रस्य मूर्दा यद्यभिरेव सः ।
अथानमिस्वभावोऽसौ धूमस्तत्र कथं भवेत्” ॥ १॥ इत्यादि । तदेतद्वक्तृत्वेऽपि समानम् । तथाहि । यदि सर्वज्ञे, वीतरागे वा वचनं स्याद. सर्वज्ञाद्रागादियुक्ताद्वा कदाचिदपि न स्यादहेतोः सकृदप्यसंभवात् ; भवति च तत्ततः। अतो न सर्वज्ञे तस्य तत्सदृशस्य वा संभव इति प्रतिबन्धसिद्धिः। अथ देशान्तरे, कालान्तरे वाऽसर्वज्ञकार्यमेव वचनं; न सर्वज्ञप्रभवमिति न दर्शनादर्शनप्रमाणगम्यम्। दर्शनस्येयव्यापारासंभवाद् ,अदर्शनस्य च प्रागेवैवंभूतार्थग्राहकलेन निषिद्धत्वात्।तर्हि सर्वदाऽग्निप्रभव एव धूमोऽग्न्यभावे कदाचनापि न भवतीत्यत्रापि प्रत्यक्षस्य सन्निहितवर्तमानार्थग्राहकत्वेनाप्रवृत्तेः,अनुपलम्भस्यापि तद्विविक्तप्रदेशविषयप्रत्यक्षस्वभावस्यात्र वस्तुनि व्यापारासंभवात्,न कार्यकारणभावलक्षणः प्रतिबन्धः प्रत्यक्षानुपलम्भसाधनः स्यात्। नाप्यनुमानतोऽपि प्रकृतः प्रतिबन्धः सिद्धिमासादयति । इतरेतराश्रयानवस्थादोषप्रसङ्गस्य प्रदर्शितत्वात्। न चान्यत्प्रतिबन्धप्रसाधकं प्रमाणमस्तीति प्रसिद्धानुमानस्यापि सर्वज्ञाभावावेदकानुमाननिरासयुक्त्युपक्षेपमिच्छतोऽत्राभावः प्रसक्तः । अथ प्रसिद्धानुमाने साध्यसाधनयोः प्रतिबन्धः, तत्प्रसाधकं च प्रमाणं किञ्चिदस्ति; तर्हि स एव प्रतिबन्धः किश्चिज्ज्ञत्ववक्तृत्वयोः, तत्प्रसाधकं च तदेव प्रमाणं भविष्यतीति सिद्धः प्रतिबन्धः किञ्चिज्ज्ञत्ववक्तृत्वयोरग्निधूमयोरिव । अत एव व्याप्याभ्युपगमो व्यापकाभ्युपगमनान्तरीयको यत्र दर्श्यते तत्प्रसङ्गसाधनमिति तल्लक्षणस्य युष्मदभ्युपगमेनात्र सद्भावात् भवत्येवातोऽनुमानात् सर्वज्ञाभावसिद्धिः । पक्षधर्मताभावप्रतिपादनं च यत्प्रकृत. प्रसङ्गसाधने प्रतिपादितं,तदभ्युपगमवादान्निरस्तम्। तत्र पक्षधर्मताया हेतोरभावेऽपि गमकत्वस्य सिद्धत्वात् । शेषस्तु पूर्वपक्षग्रन्थोऽनभ्युपगमान्निरस्त इति न प्रत्युच्चार्य दूषितः। अतोऽयुक्तमुक्तं सर्वज्ञवादिनां यथा तत्साधकप्रमाणाभावात् न तद्विषयः सद्व्यवहारः, तथा तदभाववादिनां मीमांसकादीनां तदभावग्राहकप्रमाणा. भावादेव न तदभावव्यवहार इति । प्रसङ्गसाधनस्य तदभावसाधकस्य समर्थितत्वात् । अथ यदभ्यासविकलचक्षुरादिजनितं प्रत्यक्षं तद्धर्मादिग्राहकं न भवतीति