________________
८८
सम्मतिताख्यपकरणस्यप्रसङ्गसाधनासिद्धयति, न पुनरन्यादृग्भूतम्।चोदनावदन्यादृशस्य धर्मग्राहकत्वाविरोधात्। ननु किं तज्ज्ञानं प्रतिनियतचक्षुरादिजनितं धर्मादिग्राहकम, उताभ्यासजनितं,आहोखित् शब्दजनितं,किंवाऽनुमानप्रभावितम्।तत्र यदि चक्षुरादिप्रभवम् । तदयुक्तम्। चक्षुरादीनां प्रतिनियतरूपादिविषयत्वेन तत्प्रभवस्य तज्ज्ञानस्य धर्मादिग्राहकत्वायोगात् । अत एव 'यदिषभिः' इत्याद्युक्तं दूषणमत्र पक्षे।अथाभ्यासजनितं तदिति पक्षः। तथाहि । ज्ञानाभ्यासात्प्रकर्षतरतमादिप्रक्रमेण तत्प्रकर्षसम्भवे तदुत्तरोत्तराभ्याससमन्वयात्सकलभावातिशयपर्यन्तं संवेदनमवाप्यत इति । तदपि मनोरथमात्रम्। यतोऽभ्यासो हि नाम कस्यचित्प्रतिनियतशिल्पकलादौ प्रतिनियतोपदेशसद्भाववतो जन्मतो जनस्य संभाव्यते, न तु सर्वपदार्थविषयोपदेशसंभवः। नच सर्वपदार्थविषयानुपदेशज्ञानसंभवः, येन तज्ज्ञानाभ्यासात्सकलज्ञानप्राप्तिः।तत्संभवे वा सकलपदार्थविषयज्ञानस्य सिद्धत्वात्किमभ्यासप्रयासेन। किंच। तदभ्यासप्रवर्तकं ज्ञानं यदि चक्षुरादिप्रतिनियतकरणप्रभवमप्यन्येन्द्रियविषयरसादिगोचरं, अतीन्द्रियार्थगोचरं च स्यात्, तदा पदार्थशक्तेः प्रतिनियतत्वेन प्रमाणसिद्धाया अभावात्, प्रतिनियतकार्यकारणभावाभावप्रसक्तिसद्भावात् सकलव्यवहारोच्छेदप्रसक्तिः । अथाभ्याससहायानां चक्षुरादीनामपि सर्वज्ञावस्थायामतीन्द्रियदर्शनशक्तिः, नच व्यवहारोच्छेदः, अस्मदादि. चक्षुरादीनामनभ्यासदशायां शक्तिप्रतिनियमादस्मदादय एव व्यवहारिण इति । एतदप्यसमीचीनम्। न खल्वभ्यासे सत्यप्यन्यतो वा हेतोः कस्यचिदतीन्द्रियदर्शनं चक्षुरादिभ्य उपलभ्यते; दृष्टानुसारिण्यश्व कल्पना भवन्तीति । किंच। सर्वपदार्थवेदने चक्षुरादिजनितज्ञानात्तदभ्यासः, तत्सहायं चक्षुरादिकं सर्वज्ञावस्थायां सर्वपदार्थसाक्षात्कारिज्ञानं जनयतीति कथमितरेतराश्रयमेतत्कल्पनागोचरचारि चतुरचेतसो भवत इति न द्वितीयोऽपि पक्षो युक्तिक्षमः । अथ शब्दजनितं तज्ज्ञानम् । ननु शब्दस्य तत्प्रणीतत्वेन प्रामाण्ये सर्वपदार्थविषयज्ञानसंभवः, तज्ज्ञानसंभवे च सर्वज्ञस्य तथाभूतशब्दप्रणेतृत्वमितीतरेतराश्रयदोषानुषङ्गः ।
अतएवोक्तम्:
"मर्ते तदागमात् सिधेत् नच तेनागमो विना" । इति ।