________________
तत्त्वबोधविधायिनी व्याख्या । नच शब्दजनितं स्पष्टाभमितिनतज्ज्ञानवान् सकलज्ञ इत्यभ्युपगम्यते । एवं च प्रेरणाजनितज्ञानवतो धर्मज्ञलम् । अत एवोक्तम् 'चोदना हि भूतं भवन्तम्' इत्यादि । तन्न तृतीयपक्षोऽपि युक्तिसङ्गतः। अनुमानजनितज्ञानेन तु सर्ववित्त्वे न धर्मज्ञवम् । धर्मादेरतीन्द्रियत्वेन तज्ज्ञापकलिङ्गत्वेनाभ्युपगम्यमानस्यार्थस्य तेन सह संबन्धासिद्धेः।असिद्धसंबन्धस्य चाज्ञापकत्वान्न ततो धर्माद्यनुमानम्, इत्यनुमानजनितं ज्ञानं न सकलधर्मादिपदार्थावेदकम् । किंच । तथाभूतपदार्थज्ञानेन यदि सर्वविदभ्युपगम्यते, तदाऽस्मदादीनामपि सर्ववित्त्वमनिवारितप्रसरम्।भावाभावोभयरूपं जगत् प्रमेयत्वादित्यनुमानस्यास्मदादीनामपि भावात्, अस्पष्टं वाऽनुमानमिति तज्जनितस्याप्यवैशद्यसंभवान्न तज्ज्ञानवान् सर्वज्ञो युक्तः। अथानुमानज्ञानं प्रागविशदमपि तदेवाशेषपदार्थविषयं पुनःपुनर्भाव्यमानं भावनाप्रकर्षपर्यन्ते योगिज्ञानरूपतामासादयदेशद्यभाग् भवति । दृष्टं चाभ्यासबलाज्ज्ञानस्यानक्षजस्यापि कामशोकभयोन्मादचौरस्वप्नायुपप्लुतस्य वैशद्यम् । नन्वेवं तज्ज्ञानवदतीन्द्रियार्थविद्विज्ञानस्याप्युपप्लुतत्वं स्यादिति तज्ज्ञानवतः कामाद्युपप्लुतपुरुषवहिपर्यस्तत्वम् । अथ यथा रजोनीहाराद्यावरणावृतवृक्षादिदर्शनमविशदं, तदावरणापाये वैशद्यमनुभवति; एवं रागाद्यावारकाणां विज्ञानावैशघहेतूनामपाये सर्वज्ञज्ञानं विशदतामनुभविष्यतीति। असदेतत्। रागादीनामावरणत्वासिडेः। कुड्यादीनामेव ह्यावारकत्वं लोके प्रसिद्ध, न रागादीनाम् । तथाहि । रागादिसद्भावेऽपि कुड्याद्यावरणकाभावे विज्ञानमुत्पद्यमानं दृष्टम् ; रागाधभावेऽपि कुड्याधावारकसद्भावे न विज्ञानोदय इत्यन्वयव्यतिरेकाभ्यां कुड्यादीनामेवावरणत्वावगमो, न रागादीनामिति न रागादय आवारका इति न तद्विगमोऽपि सर्वविद्विज्ञानस्य वैशयहेतुः । किंच । सर्ववेदनं सर्वज्ञज्ञानेन किं समस्तपदार्थग्रहणम्, उत शक्तियुक्तलम् , आहोखित् प्रधानभूतकतिपयपदार्थग्रहणम् । तत्र यद्याद्यः पक्षः । तत्रापि वक्तव्यम्। किं क्रमेण तद्रहणम्, आहोखिद् यौगपद्येन । तत्र यदि क्रमेण तद्ब्रहणम् । तदयुक्तम् । अतीतानागतवर्तमानपदार्थानामपरिसमाप्तेस्तज्ज्ञानस्याप्यपरिसमाप्तितः सर्वज्ञताऽयोगात् । अथ युगपत् अनन्तातीतानागतपदार्थसाक्षात्कारि तवेदनमभ्युपगम्यते । तदप्यसत् । परस्परविरुद्धानां शीतोष्णादीना