________________
सम्मतितकात्यप्रकरणस्यमेकज्ञाने प्रतिभासासंभवात् । संभवे वा न कस्यचिदर्थस्य प्रतिनियतस्य तद्राहकं स्यादिति किं तज्ज्ञानेन; अस्मदादिभ्योऽपि व्यवहारिभ्यो हीनतर इति कथं सर्वज्ञः। किंच। यदि युगपत् सर्वपदार्थग्राहकं तज्ज्ञानं, तदैकक्षणे एव सर्वपदार्थग्रहणात् , द्वितीयक्षणे किश्चिज्ज्ञ एव स्यात् ; ततश्च किं तेन तादृशा किञ्चिज्ज्ञेन सर्वज्ञत्वेन । नचानाद्यनन्तसंवेदनस्य परिसमाप्तिः; परिसमाप्तौ वा कथमनायनन्तता। किंच । सकलपदार्थसाक्षात्करणे परस्य रागादिसाक्षात्करणमिति रागादि. मानपि स स्याद्विट इव । अथ रागादिसंवेदनमेव नास्ति, न तर्हि सकलपदार्थसाक्षात्करणम् । तन्न प्रथमः पक्षः । अथ शक्तियुक्तत्वेन सकलपदार्थसंवेदनं तज्ज्ञानमभ्युपगम्यते । तदपि न युक्तम् । सर्वपदार्थावेदने तच्छक्ते तुमशक्तेः, कार्यदर्शनानुमेयत्वाच्छक्तीनाम् । किंच। सर्वपदार्थज्ञानपरिसमाप्ताचपीयदेव सर्वमिति कथं परिच्छेदशक्तिः । अथवेदनाभावादभावोऽपरस्येति सर्वसंवेदनम्। अवे. दनादभावोऽपरस्येति कुतो निश्चयः। तदपेक्षया तस्योपलब्धिलक्षणप्राप्तत्वात् तथाभूतानुपलब्ध्याऽभावनिश्चय इति चेत् । एवं सति स एवेतरेतराश्रयदोषः। सर्वज्ञत्वनिश्चये तदभावनिश्चयः, तदभावनिश्चये च सर्वज्ञत्वनिश्चय इति नैकस्यापि सिद्धिः । तन्न द्वितीयोऽपि पक्षः । अथ यावदुपयोगिप्रधानभूतपदार्थजातं तावदसौ वेत्तीति तत्परिज्ञानात्सकलज्ञः, तदपि सर्वपदार्थावेदने नियमेन नसंभवति । सकलपदार्थव्यवच्छेदेन तेषामेव प्रयोजननिर्वर्त्तकत्वमिति सकलपरिज्ञानमन्तरेणाशक्यसाधनमिति न तृतीयोऽपि पक्षो युक्तः । किंच । नित्यसमाधानसंभवे विकल्पाभावात्कथं वचनम् । वचने वा विकल्पसंभवात् समाधानविरोधान्न समाहितत्वमिति भ्रान्तच्छाद्मस्थिकज्ञानयुक्तः स स्यात् । कथं वाऽतीतानागतग्रहणम् । अतीतादेः स्वरूपस्यासंभवात् । असदाकारग्रहणे च तैमिरिकज्ञानवत्प्रमाणत्वं न स्यात् । अथातीतादिकमप्यस्ति; एवं सत्यतीतादित्वादेरप्यभाव एव इति सर्वज्ञव्यवहारोच्छेदः । अथ प्रतिपाद्यापेक्षया तस्याभावः। तदप्ययुक्तम् । नहि विद्यमानमेवापेक्षया तदैवाविद्यमानं भवति । तस्यानुपलब्धेरविद्यमानत्वमेवेति चेत् । तद्नुपलब्धिरेवास्तु कथमविद्यमानम् । नान्यस्याभावेऽन्यस्याप्यभावः । अतिप्रसङ्गात् । तस्यासावविद्यमानत्वेन प्रतिभातीति चेत् स तर्हि