________________
तत्त्वषोधविधायिनी व्याख्या। भ्रान्तः । असद्विकल्पसंभवात् । तस्यासद्विकल्पस्य विषयीकरणात्सर्वज्ञोऽपि भ्रान्त एवेति कथं सर्ववित् । अथ विकल्पस्यापि खरूपेऽभ्रान्तत्वमेव, तेन तस्य वेदनं सर्वज्ञज्ञानमभ्रान्तम् । एवं तर्हि स्वरूपसाक्षात्करणमेव केवलं, कथमतीताद्यविद्यमानसाक्षात्करणम् । ततश्वातीतानागतपदार्थाभावात्तत्साक्षाकरणासंभवान्न तद्ग्रहणात्सर्वज्ञः । किंच । स्वरूपमात्रवेदने तन्मात्रस्यैव विद्यमानत्वात्तवेदनेऽद्वैतवेदनात् न सर्वज्ञव्यवहारः । सद्भावे वा सर्वः सर्ववित् स्यात् । अथापि स्यात्, सत्यस्वप्नदर्शनवदतीतानागतादिदर्शनं, ततो व्यवहार इति । तदप्ययुक्तम् । सत्यस्वप्नदर्शनस्य स्वरूपमात्रवेदने न सत्यासत्यविभागः, किन्त्वानुमानिकः । सत्यस्वप्नस्वरूपसंवेदनस्य तन्मात्रपर्यवसितत्वात् । किंच । अतीतानागतकालसंबन्धित्वात्पदार्थानामतीतानागतत्वम्, तद्धि भवत्किमपरातीतानागतकालसंबन्धादतीतानागतत्वमभ्युपगम्यते, आहोखित् स्वत एव । यद्यपरातीतानागतकालसंबन्धात्कालस्यातीतानागतत्वं, तदा तस्याप्यपरातीतानागतकालसंबन्धादतीतानागतत्वं, तस्याप्यपरस्मादित्यनवस्था । अथातीतानागतपदार्थक्रियासंबन्धात्कालस्यातीतानागतत्वम्, तेनायमदोषः । ननु पदार्थक्रियाणामपि कुतोऽतीतानागतत्वम् । यद्यपरातीतानागतपदार्थक्रियासद्भावात ; तदाऽत्रापि सैवानवस्था। अतीतानागतकालसंबन्धात्पदार्थक्रियाणामतीतानागतत्वं,तर्हि कालस्याप्यतीतानागतपदार्थक्रियासंबन्धादतीतानागतत्वमिति व्यक्तमितरेतराश्रयत्वम् । तन्न प्रथमः पक्षः । अथ स्वरूपत एव कालस्यातीतानागतत्वं; तदा पदार्थानामपि स्वत एवातीतानागतत्वमस्तु, किमतीतानागतकालसंबन्धित्वेन । तच्च पदार्थस्वरूपमस्मदादिज्ञानेऽपि प्रतिभातीति नातीतानागतपदार्थग्राहित्वेनास्मदादिभ्यः सर्वज्ञस्य विशेषः। अपिच । संबन्धस्यान्यत्र विस्तरतो निषिद्धत्वान्न कस्यचित्केनचित्संबन्ध इत्यतीतानागतादिसंबद्धपदार्थग्राहिज्ञानमसदर्थविषयत्वेन भ्रान्तं स्यादिति न भ्रान्तज्ञानवान् सर्वज्ञः कल्पयितुं युक्तः । भवतु वा सर्वज्ञः, तथाप्यसौ तत्कालेऽप्यसर्वज्ञातुं न शक्यते। तद्ग्राह्यपदार्थाशाने तद्ग्राहकज्ञानवतः केनचित्प्रमाणेन प्रतिपत्तुमशक्तेः ।