________________
सम्मतितकाव्यप्रकरणस्य
तदुक्तम्:"सर्वज्ञोऽयमिति ह्येतत्तत्कालेऽपि बुमुत्सुभिः । तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम् ॥१॥ कल्पनीयास्तु सर्वज्ञा भवेयुर्बहवस्तव ।
य एव स्यादसर्वज्ञः स सर्वज्ञं न बुध्यते" ॥ २ ॥ नच तदपरिज्ञाने तत्प्रणीतत्वेनागमस्य प्रामाण्यमवगन्तुं शक्यम् । तदनपगमे च तद्विहितानुष्ठाने प्रवृत्तिरप्यसङ्गता। -
तदुक्तम् :"सर्वज्ञो नावबुद्धश्चेद्येनैव, स्यान्न तं प्रति ।
तद्वाक्यानां प्रमाणत्वं, मूलाज्ञानेऽन्यवाक्यवत्" ॥ १ ॥ इति । तदेवं सर्वज्ञसद्भावग्राहकस्य प्रमाणस्याभावात्, तत्सद्भावबाधकस्य चानेकधा प्रतिपादितत्वात् , सर्वज्ञाभावव्यवहारः प्रवर्त्तयितुं युक्तः। तथाहि ।ये बाधकप्रमाणगोचरतामापन्नास्ते असदिति व्यवहर्त्तव्याः; यथा अङ्गुल्यो करियूथादयः; बाधकप्रमाणगोचरापन्नश्च भवदभ्युपगमविषयः सकलपदार्थसार्थसाक्षात्कारीत्यसद्यवहारविषयत्वं सर्वविदोऽभ्युपगन्तव्यमिति पूर्वपक्षः॥
अत्र प्रतिविधीयते।यत्तावदुक्तम्। ये देशकालस्वभावव्यवहिताः प्रमाणविषयतामनापन्ना नते सद्व्यवहारगोचरचारिणः' इत्यादि। तद्युक्तम् । सर्वविदि प्रमाणविषयत्वस्य प्रतिपादयिष्यमाणत्वात् असिद्धो हेतुस्तदविषयत्वलक्षणः। यदप्यभ्यधायि।न तावदक्षसंभवज्ञानसंवेद्यस्तगावः।अक्षाणां प्रतिनियतविषयत्वेन तत्साक्षास्करणव्यापारासंभवात् । तत् सिद्धमेव साधितम् । यदप्युक्तम् । नाप्यनुमानस्य तत्र व्यापारः। तद्धि प्रतिबन्धग्रहणे पक्षधर्मताग्रहणे च हेतोः प्रवर्तते । नच प्रतिबन्धग्रहणं प्रत्यक्षतस्तत्र संभवतीत्यादि । तद् धूमादेरग्न्यादिप्रभवत्वानुमानेऽपि समानम् । अथाग्न्यादेः प्रत्यक्षत्वात्तत एव तत्प्रभवत्वकार्यविशेषत्वयोधूमादौ प्रतिबन्धसिद्धिः । ननु धूमस्य किमनिस्वरूपग्राहकप्रत्यक्षेण पावकपूर्वकत्वमवगम्यते, उत धूमस्वभावग्राहिणेति कल्पनाद्वयम् । तत्र न तावदायः पक्षः । पावकरूपग्राहिप्रत्यक्षं तत् खभावमात्रग्रहणपर्यवसितमेव, न धूमरूपप्रवेदनप्रव