________________
तस्वबोधविधायिनी व्याख्या । णम् । तदप्रवेदने च न तदपेक्षया तेन वह्नेः कारणत्वावगमः। नहि प्रतियोगिखरूपाग्रहणे तं प्रति कस्यचित्कारणत्वमन्यद्वा धर्मान्तरं ग्रहीतुं शक्यम् । अतिप्रसङ्गात् । अथ धूमखरूपप्रतिपत्तिमता प्रत्यक्षेण तस्य चित्रभानु प्रति कार्यत्वस्वभावं तत्प्रभवत्वं गृह्यते । ननु तस्यापि पावकखरूपग्राहकत्वेनाप्रवृत्तेस्तदग्रहणे तदपेक्षं कार्यत्वं धूमस्य कथमवगमविषयः । अथानिधूमद्यस्वरूपग्राहिणा प्रत्यक्षेण तयोः कार्यकारणभावनिश्चयः। तदप्यसङ्गतम् । इयग्राहिण्यपि ज्ञाने तयोः स्वरूपमेव भाति, न पुनरग्नेबूंमं प्रति कारणत्वम् ; धूमस्य वा तं प्रति कार्यत्वम् । नहि पदार्थद्वयस्य स्वस्वरूपनिष्ठस्यैकज्ञानप्रतिभासमात्रेण कार्यकारणभावप्रतिभासः । अन्यथा घटपटयोरपि खस्वरूपनिष्ठयोरेकज्ञानप्रतिभासः कचिदस्तीति तयोरपि कार्यकारणभावावगमप्रसङ्गः। अथ यस्य प्रतिभासानन्तरं यत्प्रतिभास एकज्ञाननिबन्धनस्तयोस्तदवगम इति नायं दोषः । तदपि घटप्रतिभासानन्तरं पटप्रतिभासे क्वचित ज्ञाने समानम्। नच क्रमभाविपदार्थद्वयप्रतिभासमन्वय्येकं ज्ञानमिति शक्यं वक्तुम् । प्रतिभासभेदस्य भेदनिबन्धनत्वात् । अन्यत्रापि तद्भेदव्यवस्थापितत्वाञदस्य । स च क्रमभाविप्रतिभासद्वयाध्यासितज्ञाने समस्तीति कथं न तस्य भेदः । नचैकमेव ज्ञानं जन्मानन्तरक्षणादिकालमास्त इति भवतामभ्युपगमः । तदुक्तम् । 'क्षणिका हि सा, न कालान्तरमास्ते' इति । अथ वह्निधूमस्वरूपढयग्राहिज्ञानद्वयानन्तरभाविस्मरणसहकारीन्द्रियं सविकल्पकज्ञानं जनयति, तत्र तवयस्य पूर्वापरकालभाविनः प्रतिभासात् कार्यकारणभावनिश्चयो भविष्यति । तदप्यसङ्गतम् । पूर्वप्रवृत्तप्रत्यक्षद्वयस्य तत्राव्यापारात्तदुत्तरस्मरणस्य च पदार्थमात्रग्रहणेऽप्यसामर्थ्याच्चक्षुरादीनां च तदवगमज्ञानजननेऽशक्तेः । शक्तौ वा प्रथमाक्षसन्निपातवेलायामेव तदवगमज्ञानोत्पत्तिप्रसङ्गात्, अकिञ्चित्करस्य स्मरणादेरनपेक्षणीयत्वात् । परिमलस्मरणव्यपेक्षस्य लोचनस्य सुरभि चन्दनमित्यविषये गन्धादौ ज्ञानजनकत्वस्येव, तत्रापि तज्जनकत्वविरोधात् । अथ तत्स्मरणसव्यपेक्षलोचनव्यापारानन्तरं कार्यकारणभूते एते वस्तुनी इत्येतदाकारज्ञानसंवेदनात्कार्यकारणाभावावगमः सविकल्पकप्रत्यक्षनिबन्धनो व्यवस्थाप्यते । नन्वेवं परिमलस्मरणसहकारिचक्षुर्व्यापारान