________________
तत्त्वबोधविधायिनी व्याख्या ।
७१
खसाध्यविपर्यये तस्य सद्भावबाधकम् ; तस्य च प्रकृतहेतौ सत्त्वेन दर्शितत्वान्न तत्प्रभवस्यानुमानस्याप्रामाण्यम् ॥ अत एव स्वसाध्याविनाभावित्वाभावेन तस्याप्रामाण्यमिति द्वितीयोऽपि पक्षो न युक्तः। तन्नाभावाख्यं कर्त्रस्मरणलक्षणं प्रमाणं अपौरुषयेत्वसाधकम् ; नापि पौरुषे यत्वबाधकम् । अथार्थापत्तिः कस्मरणम् । तदप्यसङ्गतम् । अर्थापत्तेरनुमानेऽन्तर्भावस्य प्रतिपादयिष्यमाणत्वात् ; तदूषणैश्वास्य पक्षस्य दूषितत्वात् । अथानुमानम् । तदप्यसङ्गतम् । अपौरुषेयो वेदः कर्बस्मरणादित्येवं प्रयोगे हेतोय॑धिकरणत्वदोषात् । अथास्मर्यमाणकर्तृकत्वादिति हेतुप्रयोगान्न व्यधिकरणत्वदोषः, तस्मयमाणकर्तृकत्वं भारतादिषु निश्चितकर्तृकेष्वपि विद्यत इत्यनैकान्तिकत्वम् । अथागमान्तरे परैः कर्तुः स्मरणात्ततो व्यावृत्तमस्मर्यमाणकर्तृकत्वमपौरुषेयत्वेन व्याप्यत इति नानैकान्तिकत्वम् । न । परकीयस्य कर्तुः स्मरणस्य भवता प्रमाणत्वेनानभ्युपगमात्। अभ्युपगमे वा, परैर्वेदेऽपि कर्तुः स्मरणादस्मर्यमाणकर्तृकत्वादिति प्रतिवाद्यसिद्धो भवन् भवतोऽप्यसिद्धः स्यात् । अथ वेदे सविगानं, कर्तृविशेषविप्रतिपत्तेः कर्तृस्मरणमसत्यम् । तथाहि । केचित् हिरण्यगर्भ, अपरेऽष्टकादीन् वेदस्य कर्तृन् स्मरन्ति इति कर्तृविशेषविप्रतिपत्तिः । नन्वेवं कर्तृविशेषविप्रतिपत्तेस्तद्विशेषस्मरणमेवासत्यं स्यात् , तत्र न कर्तृमात्रस्मरणम् । अन्यथा कादम्बर्यादीनामपि कर्तृविशेषविप्रतिपत्तेः कर्तृमात्रस्मरणस्यासत्यत्वेन तत्राप्यस्मर्यमाणकर्तृकत्वस्य सद्भावात्पुनरप्यनैकान्तिकत्वं प्रकृतहेतोः। अथ वेदे कर्तृविशेषविप्रतिपत्तिवत्कर्तृमात्रेऽपि विप्रतिपत्तिरिति तत्र कर्तृस्मरणमसत्यम् । कादम्बर्यादीनां तु कर्तृविशेष एव विप्रतिपत्तिर्न कर्तृमात्रे; तेन तत्र कर्तुः स्मरणस्य विरुद्धस्य सत्यत्वात् नास्मर्यमाणकर्तृकत्वं तेषु वर्त्तत इति नानैकान्तिकत्वम् । ननु वेदे सौगताः कर्तृमानं स्मरन्ति, न मीमांसका इत्येवं कर्तृमात्रेऽपि विप्रतिपत्तेः, यदि कर्तृस्मरणं मिथ्या, तदा कर्तृस्मरणवदस्मर्यमाणकर्तृकत्वमप्यसत्यं स्यात् विप्रतिपत्तेरविशेषात् । तथाच पुनरप्यसिद्धो हेतुः । एतेन 'सत्यं वेदे कर्तृस्मरणमस्ति नत्वविगीतं, यथा भारतादिषु' इति निरस्तम्। यदप्युक्तम् । तथा छिन्नमूलं च वेदे कर्तृस्मरणं तस्यानुभवो मूलं, नचासौ तत्र