________________
सम्मतितकाख्यप्रकरणस्य
अतः स्थितमेतत् तथाभूतानां तथाभूताध्ययनसाधने सिद्धसाधनम् । तन्न निविशेषणो हेतुः प्राक्तनोऽपौरुषेयत्वं साधयति ॥ अथ सविशेषणो हेतुः पूर्वोक्तः प्रकृतसाध्यगमकः, तदा विशेषणस्यैव केवलस्य गमकत्वाद्विशेष्योपादानमनर्थकम् । भवतु विशेषणस्यैव गमकत्वम्, सर्वथा अपौरुषेयत्वसिद्ध्या नः प्रयोजनमिति चेत् । असदेतत् । यतः कर्चस्मरणं विशेषणं किमभावाख्यं प्रमाणम्, अर्थापत्तिः, अनुमानं वा । यद्यभावाख्यमिति पक्षः । स न युक्तः । अभावप्रमाणस्य प्रामाण्याभावात् । किंच। तदुपलम्भकप्रमाणपञ्चकनिवृत्तिनिबन्धनाऽस्य प्रवृत्तिरभ्युपगम्यते भवता; 'प्रमाणपञ्चकं यत्र' इत्याद्यभिधानात् ; नच प्रमाणपश्चकस्य वेदे पुरुषसद्भावावेदकस्य निवृत्तिः । नररचितरचनाविशिष्टत्वस्य पौरुषेयत्वप्रतिपादकत्वेनानुमानस्य प्रतिपादनात् ॥ नचास्याप्रामाण्यमभि. धातुं शक्यम् । यतोऽस्याप्रामाण्यं किम्, अभावप्रमाणबाधितत्वेन, उत स्वसाध्याविनाभावित्वाभावेन । तत्र न तावदभावप्रमाणबाधितत्वेन । चक्रकदोषप्रसङ्गात् । तथाहि । न यावदभावप्रमाणप्रवृत्तिर्न तावत् प्रस्तुतानुमानबाधा; यावच्च न तस्य बाधा, न तावत्सदुपलम्भकप्रमाणनिवृत्तिः, यावच्च न तस्य निवृत्तिर्न तावत्तन्निबन्धनाभावाख्यप्रमाणप्रवृत्तिः, तदप्रवृतौ च नानुमानबाधेति दुरुत्तरं चक्रकम् । तन्नाभावप्रमाणबाधितत्वात्प्रस्तुतानुमानस्याप्रामाण्यम् । नचाबाधितत्वमनुमानप्रामाण्यनिबन्धनम् । तथाऽभ्युपगमे तस्य प्रामाण्यमेव न स्यात् ; तस्य निश्वेतुमशक्यत्वात् । तथाहि । बाधाभावो नानुपलम्भान्निश्चीयते। विद्यमानबाधकेष्वपि बाधानुपलम्भस्य भावात् । नापि बाधकाभावज्ञानात् । यतः तदपि ज्ञानं यदि तदैव बाधकामावं निश्वाययति, तदा न तत्प्रामाण्यनिबन्धनम् ; तथाभूतज्ञानस्य संभवात् ; बाधकेष्वपि भावात् । अथ सर्वदा तद्वाधकाभावं निश्चाययति । तदसत् । न पूर्व बाधकमत्र प्रवृत्तं, नाप्युत्तरकालं प्रवर्तिष्यत इत्येवंभूतस्य ज्ञानस्यार्वाग्दृशामभावात् । भावे वा तस्यैव सर्वज्ञत्वात्, न प्रेरणैव धर्मे प्रमाणमित्यन्ययोगव्यवच्छेदेन तद्विषयतत्प्रामाण्यावधारणोपपत्तिःस्यात्; किन्तु निश्चितस्वसाध्याविनाभूतलिङ्गप्रभवत्वम्।स्वसाध्याविनाभावनिश्वायकं च प्रकृतस्य हेतोः पौरुषेयत्वेन कार्यकारणभावनिश्चायकम् ; तदेव च