________________
तत्त्वबोधविधायिनी व्याख्या । अपरे अष्टकादीन ऋषीन् । सत्यमस्ति, नत्वविगीतं; यथा भारतादिषु । तथा छिन्नमूलं च स्मरणस्यानुभवो मूलम् । नच वेदे कर्तृस्मरणस्य केनचित्प्रमाणेन मृलानुभवो व्यवस्थापयितुं शक्यः । यदपि कर्तृसद्भावप्रतिपादकं वचनं कैश्चित् कृतम्, 'हिरण्यगर्भः समवर्त्तताग्रे' इत्यादि; तदपि मन्त्रार्थवादानां श्रूयमाणे ऽर्थे प्रामाण्यायोगात्, न तत्सद्भावावेदकम् ।
तदुक्तम् :"भारतेऽपि भवेदेवं, कर्तृस्मृत्या तु बाध्यते ।
वेदे तु तत्स्मृतिर्या तु, साऽर्थवादनिबन्धना" ॥१॥ एतदप्ययुक्तम् । यतः किमत्र प्रतिसाधनत्वेन विवक्षितम् ? | किमध्ययनशब्दवाच्यत्वम्, उत कर्तुरस्मरणम् । पूर्वस्मिन् पक्षे, निर्विशेषणो वा हेतुरपौरुषेयत्वप्रतिपादकः, कर्चस्मरणविशिष्टो वा । निर्विशेषणस्य निश्चितकर्तृकेषु भारतादिष्वपि भावादनैकान्तिकत्वम् । किंच । किं यथाभूतानां पुरुषाणामध्ययनपूर्वकं दृष्टं तथाभूतानामेवाध्ययनवाच्यत्वम्, अध्ययनपूर्वकत्वं साधयति, उत अन्यथाभूतानाम् । यदि तथाभूतानां, तदा सिद्धसाधनम् । अथान्यथाभूतानां, तदा सन्निवेशादिवदप्रयोजको हेतुः ॥ अथ तथाभूतानामेव साधयति । न च सिद्धसाधनम् ; सर्वपुरुषाणामतीन्द्रियार्थदर्शनशक्तिवैकल्येन अतीन्द्रियार्थप्रतिपादकप्रेरणाप्रणेतृत्वासामर्थ्येनेदृशत्वात् । स्यादेतत् ; यदि प्रेरणायास्तथाभूताथप्रतिपादनेऽप्रमाण्याभावः सिद्धः स्याद्; यावता गुणवद्वक्तुरभावे तद्गुणैरनिराकृतैर्दोषैरपोदितत्वात्सापवादं प्रामाण्यमित्युक्तम्, तथाभूतां च प्रेरणामतीन्द्रियदर्शनशक्तिविकला अपि कर्तुं समर्था इति कुतस्तथाभूतप्रेरणाप्रणेतृत्वासामर्थ्येन सर्वपुरुषाणामीदृशत्वसिद्धिः, यतः सिद्धसाधनं न स्यात् । अथ न गुणवद्वक्तृकत्वेन चोदनाया अप्रामाण्यनिवृत्तिः, किन्त्वपौरुषेयत्वेन; ततो नायं दोषः । ननु कुतः पुनरपौरुषेयत्वं चोदनाया अवगतम् । यद्यन्यतोऽनुमानात्, तदा तत एवापौरुषेयत्वसिद्धेयर्थ प्रकृतमनुमानम् । अत एवानुमानाच्चेत् । नन्वतोऽनुमानादपौरुषेयत्वसिद्धौ, प्रेरणाया अप्रामाण्याभावः; तदभावाच्च तथाभूतप्रेरणाप्रणेतृत्वासामर्थ्येन सर्वपुरुषाणामीदृशत्वसिद्धिः, इतीतरेतराश्रयदोषसद्भावः ।