________________
६८
सम्मतितर्द्धाख्यप्रकरणस्य
प्रासादादिषु नररचितरचनाविशिष्टत्वदर्शनादपौरुषेयेष्वाकाशादिष्वदर्शनाच्च, नानैकान्तिकः॥ अथापौरुषेयेष्वदृष्टमपि नररचितरचनाविशिष्टत्वं, तत्र विरोधाभावादाशङ्कयमानं सन्दिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकम् । न । अपौरुषेयेष्वपि नररचितरचनाविशिष्टत्वस्य भावे, पौरुषेयत्वेन निश्चितेषु प्रासादादिषु सकृदपि तस्य सद्भावो न स्यात् । अन्यहेतुकस्य ततः कदाचिदप्यभावात् । भावे वा तद्धेतुक एवासाविति नापौरुषेये तस्य सद्भावः शङ्कनीयः ॥ अत एव न विरुद्धः । पक्षधर्मत्वे सति विपक्ष एव वृत्तिर्यस्य स विरुद्धः । नचास्य विपक्षे वृत्तिरिति प्रतिपादितम् ॥ नापि कालात्ययापदिष्ट प्रकरणसमा प्रयोजकत्वानि हेतोर्दोषाः सम्भवन्ति । तथाहि । प्रत्यक्षागमबाधितकर्मनिर्देशानन्तरप्रयुक्तत्वं हेतोः कालात्ययापदिष्टत्वमुच्यते । नच यत्र खसाध्याविनाभूतो हेतुर्धर्मिणि प्रवर्त्तमानः खसाध्यं व्यवस्थापयति, तत्रैव प्रमाणान्तरं प्रवृत्तिमासादयत्तमेव धर्मं व्यावर्त्तयति । एकस्यैकदैकत्र विधिप्रतिषेधयोर्विरोधात् । तन्न बाधाविनाभावयोः सम्भव इति न कालात्ययापदिष्टत्वमविनाभूतस्य हेतोर्दोषः संभवति ॥ प्रकरणसमत्वमपि प्रतिहेतोर्विपरीतधर्मसाधकस्य प्रकरणचिन्ताप्रवर्त्तकस्य तत्रैव धर्मिणि सद्भाव उच्यते । न च खसाध्याविनाभूतहेतुसाधितधर्मिणो धर्मिणि विपरीतत्वं संभवतीति न विपरीतधर्माधायिनो हेत्वन्तरस्य तत्र प्रवृत्तिरिति न प्रकरणसमत्वमविनाभूतस्य हेतोर्दोषः ॥ अप्रयोजकत्वं तु पक्षधर्मान्वयव्यतिरेकाणामन्यतमरूपाभावः । नच प्रकृते हेतौ तदभावइति दर्शितम् ॥ अथाऽनुमानलक्षणयुक्तस्य प्रत्यनुमानस्यापौरुषेयत्वसाधकस्य सद्भावात् प्रकरणसमता, प्रकृतस्य हेतोरनुमानबाधितत्वं वा पक्षस्य दोषः । प्रत्यनुमानं च दर्शितम् :
“वेदाध्ययनमखिलं गुर्वध्ययनपूर्वकम् ।
वेदाध्ययनवाच्यत्वादधुनाऽध्ययनं यथा ॥ १ ॥ इति ।
1
नचैतदाशङ्कनीयम् । एवंविधे प्रत्यनुमानेऽभ्युपगम्यमाने कादम्बर्यादी - नामप्यपौरुषेयत्वसिद्धिः । यतस्तेषु बाणादीनां कर्त्तृणां निश्चयः । तथाहि । कालिदासकृतत्वेन कुमारसंभवादीनि काव्यानि अविगानेन स्मर्यन्ते ॥ अथ वेवेऽपि कर्तृस्मरणमस्ति । तथाच । केचिद्धिरण्यगर्भ वेदानां कर्त्तारं स्मरन्ति;