________________
तत्त्वबोधविधायिनी व्याख्या ।
परिज्ञानम् स्वयं वेदोऽपि न भवतां वेदार्थे प्रतिपादयति ; नापि वेदार्थ प्रतिपादकमपौरुषेयं वेदव्याख्यानमवगतार्थं सिद्धम्, येन ततो वेदार्थप्रतिपत्तिः; लौकिकशब्दानुसारेण वेदशब्दार्थ प्रकल्पनमपि तद्भेदाभ्युपगमेऽनुपपन्नमिति न वेदार्थप्रसिद्धिः स्यादिति न वैदिकलौकिकशब्दयोर्भेदाभ्युपगमः श्रेयानिति लौकिकवद्वैदिकस्यापि पौरुषेयत्वमभ्युपगन्तव्यम् । न च लौकिकवैदिकशब्दयोः शब्दस्वरूपाविशेषे, सङ्केतग्रहणव्यपेक्षलेनार्थप्रतिपादकले, अनुच्चार्यमाणयोश्च पुरुषेणाश्रवणे सत्यतोऽपरो विशेषो विद्यते; यतो वैदिका अपौरुषेयाः, लौकिकाः पौरुषेयाः स्युः । तथा नियोगे चार्थप्रत्यायनमुभयोरपि । नच नित्यत्वे पुरुषेच्छावशादर्थप्रतिपादकत्वं युक्तम्; उपलभ्यन्ते च यत्र पुरुषैः सङ्केतितास्तमर्थमविगानेन प्रतिपादयन्तः । अन्यथा नियोगाद्यर्थभेदपरिकल्पनमसारं स्यात् । अतः पौरुषेयत्वमनुमानादवसीयते । तथाहि । ये नररचितरचनाविशिष्टास्ते पौरुषेयाः, यथाऽभिनव कूपप्रासादादिरचनाविशिष्टा जीर्णकूपप्रासादादयः, नररचितरचनाविशिष्टं च वैदिकं वचनमिति प्रयोगः ॥ नचात्राश्रयासिद्धो हेतुः । वैदिकीनां रचनानां प्रत्यक्षत उपलब्धेः ॥ नाप्यप्रसिद्धविशेषणः पक्षः । अभिनवकूपप्रासादादिषु पुरुषपूर्वकत्वेऽस्य साध्यधर्मलक्षणस्य विशेषणस्य सिद्धत्वात् ॥ नच हेतोः स्वरूपासिद्धत्वम् । वैदिकीषु वचनरचनासु विशेषग्राहकप्रमाणाभावेन तस्याभावात् । नच प्रामाण्याभावलक्षणो विशेषः तत्र इति शक्यमभिधातुम् । तथाभूतस्य विशेषस्य विद्यमानस्यापि पौरुषेयत्वानिराकरणात् । यादृशो हि विशेष उपलभ्यमानः पौरुषेयत्वं निराकरोति, तादृशस्य विशेषस्याभावादविशिष्टत्वमुच्यते, न पुनः सर्वथा विशेषाभावात एकान्तेनाविशिष्टस्य कस्यचिदभावात्। अप्रामाण्याभावलक्षणश्च विशेषो दोषवन्तमप्रामाण्यकरणं पुरुषं निराकरोति, नच गुणवन्तमप्रामाण्यनिवर्त्तकम् । नच गुणवतः पुरुषस्याभावात्, अन्यस्य च तेन विशेषेण निवर्त्तितत्वात्सिद्धमेवापौरुषेयत्वं वेद इत्यभ्युपगमनीयम् । अपौरुपयेत्वस्य निराकृतत्वाद्, गुणवत्पुरुषाभावेऽप्रामाण्याभावलक्षणस्य विशेषस्याभावप्रसङ्गात् । नच गुणवतः पुरुषस्यान्येन विशेषेण निराकरणमिति तथाभूतविशेषस्याभावात् नासिद्धो नररचितवचनरचनाविशिष्टत्वलक्षणो हेतुः । पौरुषेयेषु
1
;